Top
Samskrita Bharati - Uttarakhand
संस्कृतभारती - उत्तराखण्ड
Latest Media & News
Preview Media & News

कुमाऊँ-संभागे अखिलभारत-महामन्त्री श्रीसत्यनारायण भट्ट महोदयस्य प्रवास:
08-10-2023 दिनांके रविवासरे हल्द्वान्यां अखिलभारत-महामन्त्री श्रीसत्यनारायण भट्ट महोदयस्य प्रवास: जात: ।एतस्मिन्नेव अवसरे महोदयस्य सानिध्ये कुमाऊँ-सम्भागस्य उपवेशनमपि कृत: ।
गोष्ठ्या: आरम्भ: डॉ.हेमन्त जोशी महोदयेन मङ्गलाचरणेन कृत: ।
एकलगीतम् अंकित-पाण्डे महोदयेन कृतम्।अतिथीनां परिचय: तथा च अस्मिन् वर्षे इदानीं पर्यन्तं कुमाऊँ-संभागे यानि अपि कार्याणि जातानि तेषां वृत्तं प्रान्त-सहमन्त्री डॉ. चन्द्रप्रकाश उप्रेती महोदयेन प्रस्तुतम्।
श्रीजगदीशचन्द्र जोशी महोदयेन प्रचारविभागस्य कार्याणां विषये बोधितम्।
गोष्ठ्यां प्रान्ताध्यक्षा श्रीमती जानकी त्रिपाठी नूतन-दायित्वानां घोषणां कुर्वती उक्तवती यत् संस्कृतभारती समग्रेsपि देशे संस्कृतस्य प्रतिष्ठायै कटिबद्धा वर्तते ।
गोष्ठ्या: सञ्चालनं डॉ.जगदीशचन्द्र पाण्डेय महोदयेन विहितम्।
श्रीसत्यनारायण महोदयेन सह सम्भागे जयमानानां विविधानां कार्यक्रमाणां विषये चर्चा जाता तथा महोदयेन सर्वेषां मार्गदर्शनमपि कृतम्।

गोष्ठ्यां श्रीप्रताप सिंह महोदयस्य सानिध्यमपि प्राप्तम्।
अतिथि-सत्कार: जनपदसंयोजकेन डॉ.नीरज जोशी महोदयेन कृत: ।
अवसरेsस्मिन् 25 यावत् कार्यकर्तार: उपस्थिता: आसन्।
नूतन-दायित्वानि -
1.श्रीमनोजकुमार जोशी - पत्राचारप्रमुख: (कुमाऊँ-सम्भाग:)
2. श्रीऋतेश-टम्टा - महाविद्यालय-संपर्कप्रमुख: (जनपद-अल्मोड़ा)
3. श्रीनीरज सती - भीमताल-विकासखण्ड संयोजक:
वन्दे संस्कृतमातरम्.


  • Post By : Uttarakhand
  • |
  • 09-10-2023
  • |