Top
Samskrita Bharati - Saurashtra
संस्कृतभारती - सौराष्ट्र
Latest Media & News
Preview Media & News

संस्कृतभारती-सौराष्ट्रप्रान्तेन ७ मे दिनाङ्कतः १५ मे, २०२६ पर्यन्तं भावनगरजनपदस्य तलाजा-ताल
सौराष्ट्रप्रान्ते प्रबोधनवर्गः बालकेन्द्रप्रशिक्षणवर्गः च सम्पन्नः

संस्कृतभारती-सौराष्ट्रप्रान्तेन ७ मे दिनाङ्कतः १५ मे, २०२६ पर्यन्तं भावनगरजनपदस्य तलाजा-तालुकायाः बपाडाग्रामे जय जननी विद्यासङ्कुले निवासी ‘प्रबोधनवर्गः’ एवं ‘बालकेन्द्रप्रशिक्षणवर्गः’ भव्यतया साफल्येन च आयोजितः आसीत्।

उद्घाटन-समापनसमारोहयोः वर्गे च उपस्थिताः आसन्  शिवकथाकाताः श्रीभारद्वाजबापु , प्रान्ताध्यक्षः श्रीसुकान्तकुमारसेनापतिमहोदयः, कुलसचिव (रजिस्ट्रार) श्रीमहेशभाई मैत्रमहोदयः, नायब-जिला प्राथमिक-शिक्षणाधिकारि श्रीविशालभाई राज्यगुरुमहोदयः राष्ट्रीयस्वयंसेवकसङ्घस्य प्रान्तप्रचारक श्रीमहेशभाई जीवाणीमहोदयः, विभागकार्यवाहः श्रीविपुलभाई जोशीमहोदयः, अष्टाङ्गायुर्वेदवैद्यः महेन्द्रसिंह सरवैयामहोदयः, संस्कृतभारत्याः अखिलभारतीयश्लोकपठनकेन्द्रप्रमुखः श्रीचिन्मय आमशेकरमहोदयः, तथा च डॉ. योगेशभाई भट्टमहोदयः (प्राचार्याः, वर्ग-२, मथावडा-उच्चविद्यालयः, तलाजा) सहितसर्वे वरिष्ठाधिकारिणः उपस्थिताः आसन् ।

वर्गे वर्गाधिकारिणी धनेश्री भट्टः,वर्गपालकः पङ्कजभाई त्रिवेदी, वर्गकार्यवाहः प्रणवः राज्यगुरुः,शिक्षणप्रमुखा आशाबेन माढक एवं ऊर्मिबेन जानी आसीत्। शिक्षकरुपेण धर्मेन्द्रभाई मेमकिया, योगेशभाई, कल्पेशभाई, भरतभाई, दिनेशभाई, हरपालसिंह, हिनाबेन, जल्पाबेन,कोमलबेन, दक्षाबेन आसन्, व्यवस्थाप्रमुखौ दिग्विजयसिंह एवं कुलदीपसिंहः, प्रबन्धिके भार्गवीमितले आस्ताम् ।.


  • Post By : Saurashtra
  • |
  • 16-07-2026
  • |