Top
Samskrita Bharati - Himachal Pradesh
संस्कृतभारती - हिमाचलप्रदेश:
Latest Media & News
Preview Media & News

नालागढस्य डी.पी.एस.वल्ड-विद्यालये सम्भाषणशिबिरं सम्पन्नम्
संस्कृतभारती-नालागढस्य तत्वावधाने न्यू-नालागढस्थे डी.पी.एस.वल्ड-विद्यालये मङ्गलवासरे संस्कृतसम्भाषणशिबिरस्य समापनकार्यक्रमः आयोजितः । अष्टदिनात्मके$स्मिन् सम्भाषणशिबिरे षण्णानां विद्यालयानां 42 छात्राः 04 सामाजिकाश्च आहत्य 46 शिबिरार्थिनः संस्कृतसम्भाषणस्य शिक्षणं प्राप्तवन्तः । कार्यक्रमे मुख्यातिथिरूपेण सेवानिवृत्तः भूसंरक्षणाधिकारी लेखकश्च श्रीमान् यादवकिशोरगौतममहोदयः अध्यक्षः विद्यालयस्य मुख्यसंस्थापकः सञ्चालकश्च श्रीमान् किशोरीलालमहोदयः विशिष्टातिथिः श्रीमती नीनापराशरमहोदया च आसन् । कार्यक्रमस्य सञ्चालनं डा.मुकेशमहोदयेन कृतम् । संस्कृतभारत्याः विभागसंयोजकेन डा.सन्तोषकुमारमहोदयेन अतिथिपरिचयः प्रास्ताविकं च प्रस्तुतम् । नालागढजिलामन्त्रिणा डा.प्रेमचन्दशर्मवर्येण सङ्घटनपरिचयः कारितः अपि च सङ्घटनद्वारा समाजाय चाल्यमानानाम् अनेकेषां कार्यक्रमाणां विषयकवक्तव्यं प्रस्तुतम् । शिबिरे प्राप्तशिक्षणैः अनेकैः छात्रैः संस्कृतमाध्यमेन अनेकाः मनोहारिण्यः प्रस्तुतयः प्रस्तुताः । मुख्यातिथिवर्येण श्रीमता यादवकिशोरगौतममहोदयेन " संस्कृतस्य वैज्ञानिकता जीवने च तस्य महत्वम्" इति विषयमधिकृत्य स्ववक्तव्यं प्रस्तुतम् । छात्राश्च संस्कृतसम्भाषणार्थं महोदयेन प्रेरिताः । शिबिरे$स्मिन् शिक्षिके सुश्रीः शगुनशर्मा सुश्रीः सञ्जनाकुमारी चास्ताम् ।कार्यक्रमेsस्मिन् श्रीमती लवलीन-कुमारीमहोदया श्रीहुकममहोदयः श्रीमती रेखाशर्मा श्रीराजेशशर्मा महोदयः श्रीमान् अनिलमहोदयः श्रीकुलवीरमहोदयादयः अनेके गणमान्याः कार्यकर्त्तारः सामाजिकाः अभिभावकाश्च कार्यक्रमे उपस्थिताः आसन् ।.


  • Post By : Himachal Pradesh
  • |
  • 25-08-2022
  • |