Top
Samskrita Bharati - Delhi
संस्कृतभारती - देहली
Latest Media & News
Preview Media & News

देहल्यां सुल्तानपुरे तद्धितवर्गस्य आयोजनम्
समारब्ध तद्धितवर्ग 15-31/01/2020
देहल्यां सुल्तानपुरे तद्धितवर्गस्य आयोजनं जातम्। यत्र देहलीप्रान्तमन्त्री डॉ देवकीनन्दनः प्रान्तस्य पूर्णकालिक प्रचारकः श्रीपुष्पेन्द्रः च उद्घाटने समुपस्थितौ। अस्मिन् तद्धितप्रक्रियां सुतरां सरलरूपेण डॉ चक्रपाणिवर्यः अपाठयत्। वर्गस्य समारम्भः यथासमयं सायंकाले सार्धपञ्चवादने जातः। तत्र चक्रपाणिवर्यः तद्धितपरिचयं आरम्भिकसूत्राणि च अपाठयत्। असौ अस्मिन् अवसरे सामान्यप्रक्रियां अबोधयत्। तेन पाठनकाले अत्यन्तं ज्ञेयाः
शास्त्रार्थविचाराः अपि बोधिताः। पाठनकाले आचार्येण सर्वेषां छात्राणां जिज्ञासासमाधानं बोधकरूपेण कृतम्।श्वः अपत्याधिकारात्समारम्भ करिष्यते। तेन अस्मिन् अवसरे$भाणि यत् तद्धितप्रकरणं सुतरां प्रेरकमस्ति। अस्य ज्ञानेन बहवः विषयाः स्पष्टाः भवन्ति। कार्यक्रमस्यारम्भे दीपप्रज्वालनं डॉ चक्रपाणिवर्यः अकरोत्। वैदिकमङ्गलाचरणं हिमांशुशेखरः अकरोत्। देहलीप्रान्तस्य सम्पर्कप्रमुखः डॉ परमेशः वर्गस्य रूपरेखां प्रत्यपादयत्। धन्यवादज्ञापनं श्रीमती प्रज्ञा अकरोत्। अध्ययनाय वन्दनाशुक्ला रागिनीशुक्ला दिवाकर निर्भर चेत्यादय आगच्छन् । वर्ग सायं सार्धपंचवादनत रात्रि-अष्टवादनं यावत् भविष्यति । संयोजक डॉ भीम वर्तते। शनिवारे रविवासरे च कक्षा प्रात 11 वादनत सायं 5 वादनं यावत् भविष्यति।.


  • Post By : Delhi
  • |
  • 15-01-2020
  • |