देहल्याः कटवारियासरायग्रामे संस्कृतशोभायात्रा
रामकृष्णपुरविभागस्य कटवारियासरायग्रामे संस्कृतशोभायात्रायाः आयोजनं जातम्।तत्र ग्रामस्य मध्ये डॉ.परमेशस्य उद्बोधनमभवत्। ग्रामं गत्वा अनेके कार्यकर्तारः उद्बोधनं कृत्वा संस्कृताय जनजागरणं कृतवन्तः।
कार्यक्रमस्य विश्रान्त्यवसरे प्रो.हरेरामत्रिपाठिवर्यः उक्तवान् यत् वर्तमानकाले विश्वस्तरे संस्कृतस्य प्रभावः वर्धितः यतोहि आधुनिककाले सुखपूर्वकं जीवनाय प्रत्येकजनस्य कृते संस्कृतस्य महती आवश्यकता वर्तते। प्रो.कमलाभारद्वाजमहोदया अपि संस्कृतस्य महत्वं प्रकटीकृत्य कार्यकर्तृणां प्रोत्साहनं कृतवती।
डॉ.अर्चनाशर्मा डॉ.परमेशकुमारशर्मा
डॉ.प्रवेशव्यासः डॉ.देशबन्धुःडॉ.नवीनशर्मा
श्रीदेवकीनन्दनःश्री आशीषःश्री अमितमिश्रः आदयोsपि स्व-विचारान् समुपस्थापितवन्तः।कार्यक्रमस्य अन्ते जिलासंयोजकः श्रीआशीषः सर्वेषां धन्यवादज्ञापनं कृतवान्।.
- Post By : Delhi
- |
- 21-10-2018
- |



.jpeg)

























