देहल्यामारब्धः शिबिरचालकप्रशिक्षणवर्गः भाषाबोधनवर्गश्च
संस्कृतभारतीदिल्लीद्वारा जूनमासस्य द्वितीयदिनांके शिबिरचालकप्रशिक्षणवर्गः भाषाबोधनवर्गश्च आरब्धः।शिबिरमिदं जूनमासस्य त्रयोदशदिनांकपर्यन्तं प्रचलिष्यति।शिबिरस्य उद्घाटनावसरे संस्कृतभारत्याः अखिलभारतीय-अध्यक्षः प्रो.भक्तवत्सलशर्माश्रीलालबहादुरशास्त्रीविद्यापीठतः वर्गाधिकारी प्रो.कमलाभारद्वाजविद्वत्परिषदःअध्यक्षः डा.गोविन्दाचार्यःआईएएस प्रशिक्षकः श्रीराकेश-एभिः दीपप्रज्वालनं कृत्वा शिबिरस्य उद्घाटनं कृतम्।अध्यक्षीयभाषणे प्रो.भक्तवत्सलेनोक्तं यत् संस्कृतं भारतस्य आत्मा वर्तते।भारतस्य उत्थानं संस्कृतेन एव सम्भवम्।डा.गोविन्दाचार्येणोक्तं यत् संस्कृतसाहित्ये सम्पूर्ण ज्ञानविज्ञानं समाहितमस्ति।तत्रैव प्रो.कमलाभारद्वाजेन सर्वेषां शिविरार्थिनां संस्कृतशिबिरं चालयितुम् आह्वानं कृतम्।कठिनपरिश्रमेण एव साफल्यं प्राप्यते अतः सामाजिककार्येषु सर्वेषां सहभागिता अतीव आवश्यकी इति आइएएसप्रशिक्षकेण श्रीराकेशमहोदयेनोक्तम्।शिबिरे १५० शिबिरार्थिनः समुपस्थिताः ।.
- Post By : Delhi
- |
- 21-10-2018
- |



.jpeg)

























