०२/०१/२०२४ दिनाङ्के श्रीराममन्दिरधर्मशाला हल्द्वानी इत्यत्र आवासीयप्रबोधनवर्गस्य आरम्भ:
अद्य ०२/०१/२०२४ दिनाङ्के संस्कृतभारती-उत्तराञ्चलस्य कुमाऊँ सम्भागेन श्रीराममन्दिरधर्मशालारेलवेबाजारहल्द्वानी इत्यत्र आवासीयप्रबोधनवर्गस्य आरम्भ: जात:। कार्यक्रमस्य उद्घाटनं वैदिकमङ्गलाचरणेन दीपप्रज्वालनेन च अभवत्।
अतिथिनां स्वागतं प्रान्तमन्त्री डॉ. चन्द्रप्रकाश उप्रेतिः अकरोत्। उद्घाटनसत्रस्य मुख्यअतिथि: महात्मा-गांधी-केन्द्रीय-विश्वविद्यालयस्य कुलपतिचर: प्रो. संजीवकुमारशर्मा उक्तवान् यत् संस्कृतभाषा सर्वभाषाणां जननी अस्ति, अत एव संस्कृतभारत्याः संस्कृतप्रचाराय कार्यः प्रशंसनीयः अस्ति। सः अवदत् यत् संस्कृतं केवलं कर्मकाण्डस्य भाषा नास्ति। भारतस्य अस्तित्वमेव संस्कृतस्य कारणात् वर्तते। अतः अस्माभिः सर्वैः संस्कृतं वक्तुमभ्यासः वर्धनीयः ।
विशिष्टातिथिः लालकुआनविधानसभायाः लोकप्रियः विधायकः डॉ. मोहनसिंह बिष्टः अवदत् यत् भवन्त: सौभाग्यशालिनः सन्ति यत् भवन्त: बहु दूरेभ्य: देवभाषासंस्कृतं ज्ञातुमागतवन्त:। संस्कृतम् अस्माकं वैभवम्, तस्य त्राणम् अस्माकं कार्यम्।
विशिष्टातिथिरूपेण प्रसिद्धः वैद्यः डॉ. नीलाम्बरभट्ट: स्वसम्बोधने उक्तवान् यत् संस्कृतम् अस्माकं मूलं वर्तते। तस्य रक्षणम् अस्माकं परमं कर्तव्यम् अस्ति।
सारस्वतातिथि: सहायककेन्द्रीयपरिवहन-अधिकारी हल्द्वानी श्रीविमलपाण्डेय: आसीत्।तेनोक्तं संस्कृतम् अस्माकं जीवनपद्धति: वर्तते। यदि कश्चन्नपि कमपि विषयं यथाशीघ्रम् अवगन्तुं क्षमतां वर्धयितुम् इच्छति तर्हि प्रथमं संस्कृतम् अध्येतव्यम्।
कार्यक्रमस्य अध्यक्षतां कुर्वती संस्कृतभारत्याः अध्यक्षा श्रीमती जानकी त्रिपाठी कुमाऊँ-मण्डलस्य छात्रान् अभिवादयन्ती संस्कृतस्य प्रचारस्य विषये चर्चां कृतवती। अस्मिन् अवसरे मञ्चस्य संचालनं डॉ. प्रकाश जाङ्गी इत्यनेन कृतम् ।
प्रस्ताविकं सम्बोधनं प्रान्तमन्त्रीणा गिरीशचन्द्रतिवारीणा दत्तम्। कुमाऊँ-संभागसम्पर्कप्रमुखा: श्रीमन्त: प्रकाशभट्टमहोदया: सर्वेषामागतानां धन्यवादज्ञापनमकार्षु:। अस्य वर्गस्य वर्गाधिकारी कैलाशपन्तमहोदयः सर्वेषां वर्गाभ्यर्थिनामभिनन्दनम् अकरोत्। शिविरस्य समाप्तिः जनवरी ०८ दिनाङ्के भविष्यति।अस्मिन् आवासीयप्रबोधनवर्गे ६० तः अधिकाः प्रशिक्षणार्थिन: प्रशिक्षणं गृह्णन्ति। अवसरेस्मिन् डॉ. गोपाल दत्त त्रिपाठी, डॉ. जगदीश चंद्र पाण्डेय, नाजिया, अब्दुल कवि, डॉ. नीरज जोशी, डॉ. कंचन तिवारी, डॉ. हेमंत जोशी, डॉ. मोहित जोशी, डॉ. कमल बेलवाल,डॉ. अभिषेक परगाँई, डॉ. नवीन जोशी, डॉ. राजेन्द्र भट्ट:, डॉ संजय भट्ट:, श्री जगदीश जोशी, मनोज पाण्डेय, पंकज कपूर, गीतिका तिवारी, आलोक टंडन, भूपेश जोशी इत्यादय: कार्यकर्तार: उपस्थिता: आसन् |
वन्दे संस्कृतमातरम्।.
- Post By : Uttarakhand
- |
- 09-01-2024
- |





























