
संस्कृतसप्ताहः
दिनाङ्कः २०-०८-२०१८ तः २८-०२-२०१८ पर्यन्तम् बल्लारिनगरे संस्कृतसप्ताहः आचरितः ।
कार्यक्रमे मुख्य-अतिथि-अध्यक्षस्थानम् अलङ्कृतवन्तः – श्री रामकृष्णः कर्णाटकउतरप्रान्तस्य सङ्घटनमन्त्री संस्कृतभारती श्री. चन्द्र्शेखरः बल्लारिविभाग-संयोजकः स्कृतभारती श्री.सत्यनारायणः श्री बदरिनाथगुरुकुलस्य अध्यक्षः श्री नागराजः बल्लारिमण्डलप्रमुखः राष्र्ट्रीयस्वयंसेवकसङ्घः श्री.वीरेशः हेगडे श्रीमती चन्नम्मा कर्णाटक-उत्तरप्रान्तगणसदस्या श्रीमती रूपा श्रीमती श्रीषा इत्यादयः संस्कृतसप्ताहस्य विषये संस्कृतस्य महत्वविषये मार्गदर्शनम् दत्वा सर्वान् प्रोत्साहितवन्तः ।
२८-०८-२०१८ तमे दिनाङ्के संस्कृतसप्ताहः कार्यक्रमः बालभारती केन्द्रीयविद्यालये आचरितः । कार्यक्रमे मुख्यातिथिः श्री रामकृष्णवर्यःकर्णाटकउतरप्रान्तस्य सङ्घटनमन्त्री संस्कृतभारती एते प्रास्ताविकभाषणं कृतवन्तः । श्री प्रह्लादाचार्यः महोदयः अध्यक्षस्थानम् अलङ्कृत्य संस्कृतस्य महत्वम् इति विषये सर्वेभ्यः मार्गदर्शनं कृतवन्तः । बालैः संस्कृतगीतानि सम्भाषणानि संस्कृतगीतनृत्यानि इत्यादयः कार्यक्रमाः प्रदर्शिताः । धन्यवादसमर्पणम् तथा शान्तिमन्त्रेण कार्यक्रमः समापितः ।.
- Post By : North Karnataka
- |
- 21-10-2018
- |