Top
Samskrita Bharati - Meerut
संस्कृतभारती - मेरठ
Latest Media & News
Preview Media & News

आवासीय-भाषा-बोधनवर्ग हरिपुरम् (हापुड)
२०२२ वर्षस्य दिसम्बर-मासस्य २८ दिनाङ्कात् आरब्ध अयं भाषाबोधनवर्ग २०२३ जनवरी ५ दिनाङ्कं यावत् प्राचलत्। अस्मिन् वर्गे ८ जनपदेभ्य आगता ६० संख्याका शिक्षार्थिन (४३ पुरुषा १७ महिला ) भागं गृहीतवन्त । संस्कृतभारती-मेरठप्रान्त-द्वारा गुरुकुलमहाविद्यालय-ततारपुर-परिसरे आयोजिते प्रान्तप्रबोधनवर्गे निरन्तरपरिश्रमं कृत्वा कार्यक्रमं सफलीकर्तुं युक्तानां सर्वेषां कार्यकर्तृबन्धूनां गुरुकुल-ततारपुरस्य आचार्याणां च प्रयास सर्वथा अनुकरणीय प्रशंसनीय च आसीत्। आशास्महे यत् सर्वे कार्यकर्तार अस्मात् वर्गात् उद्दीप्तां संस्कृतज्वालाम् अग्रे प्रसारयितुं प्रयतिष्यन्ते।
वदतु संस्कृतम् जयतु भारतम्!.


  • Post By : Meerut
  • |
  • 05-01-2023
  • |