Top
Samskrita Bharati - Uttarakhand
संस्कृतभारती - उत्तराखण्ड
Latest Media & News
Preview Media & News

04-03-2024 दिनांके एम.बी.पीजी स्नातकोत्तर महाविद्यालय-हल्द्वान्यां संस्कृतसम्भाषणशिबिरस्य आरम्भ: |
04-03-2024 दिनांके संस्कृतभारती हल्द्वानी द्वारा एम.बी.पीजी स्नातकोत्तर महाविद्यालय-हल्द्वानी इत्यत्र सोमवासरात् दशदिवसीयस्य सरलसंस्कृतसम्भाषणशिबिरस्य उद्घाटनं कृतम्।
कार्यक्रमस्य आरम्भं महाविद्यालयस्य प्राचार्यः प्रो.एन. एस.बनकोटी , संस्कृत विभागाध्यक्षा प्रो कमला पन्त:, कुमाऊँ सम्भागसम्पर्कप्रमुखः श्रीमान् प्रकाश चन्द्र भट्ट इत्यादयः दीपप्रज्ज्वालनेन कृतवन्तः । तदनन्तरं महाविद्यालस्य छात्राभिः मंगलाचरण कृतम् । संस्कृतविभागाध्यक्षा प्रो कमला पंतः अतिथीनाम् स्वागतं कृतवती । संस्कृतभारत्याः विभागसंयोजकः डॉ. जगदीशचन्द्रपाण्डेयः कार्यक्रमस्य प्रस्तावनाम् प्रस्तुतवान् । सः अवदत् यत् संस्कृतभाषां जनभाषां कर्तुं १९८१ तमे वर्षात् विश्वस्य अनेकेषु देशेषु संस्कृतभारती निरन्तरं कार्यं कुर्वती अस्ति। देशस्य सर्वेषां प्रान्तानां सर्वेषु जनपदेषु संस्कृतभारत्याः कार्यकर्तारः वर्षपर्यन्तं संस्कृतसम्भाषणशिबिराणां आयोजनं कुर्वन्ति । महाविद्यालयस्य प्राचार्यः प्रो एन एस बनकोटी महोदयः संस्कृतभारत्याः प्रयत्नस्य प्रशंसाम् अकरोत्। संस्कृतभारत्या चालितस्य संस्कृतसंभाषण-आन्दोलनस्य महतीं प्रसंशां कृतवान् । कुमाऊँ संभागसम्पर्कप्रमुख: श्रीमान् प्रकाशचन्द्रभट्ट: महाविद्यालस्य प्राचार्यस्य अन्येषां आचार्याणां च धन्यवादं विहितवान्
अयं शिबिरः महाविद्यालये मार्चमासस्य ४ दिनाङ्कात् १५ मार्चपर्यन्तं अपराह्ण १:३० वादनतः अपराह्ण ३:३० वादनपर्यन्तं प्रचलिष्यति । अस्मिन् कार्यक्रमे सर्वे अपि जिज्ञासव: छात्राः भागं ग्रहीतुं शक्नुवन्ति।
शिविरशिक्षकः डॉ. चन्द्रप्रकाश उप्रेतिः, सहशिक्षकः डॉ. जगदीशचन्द्रपाण्डेयः च भविष्यतः। कार्यक्रमस्य सञ्चालनं जिलासम्पर्कप्रमुख: डॉ. हेमन्त जोशी कृतवान् । कार्यक्रमे प्रो . महेशकुमारः विभागाध्यक्ष: जन्तुविज्ञानविभागः, डॉ दीपिका पाण्डेय , डॉ अनीता भोज: महानगरसंयोजक: डॉ कैलाश चन्द्र सनवाल : , प्रकाश चन्द्र रूवाली , मनीषा आर्या, उषा, पूजा, दीक्षा, आकांक्षा खाती इत्यादयः उपस्थिताः आसन् ।
वन्दे संस्कृतमातरम्।.


  • Post By : Uttarakhand
  • |
  • 04-03-2024
  • |