Top
Samskrita Bharati - Himachal Pradesh
संस्कृतभारती - हिमाचलप्रदेश:
Latest Media & News
Preview Media & News

प्रबोधनवर्गाः
संस्कृतभाषायाः उत्तमाय अभ्यासाय संस्कृतं व्यवहारभाषां च कर्तुं संस्कृतभारतीद्वारा शीतावकाशेषु दशदिवसीयाः त्रयः प्रबोधनवर्गाः आयोजिताः सन्ति । 02 जनवरी 2023 तः आरब्धेषु त्रिषु अपि आवासीयवर्गेषु काङ्गडाविभागे लुधियाना-धर्मशाला-चामुण्यां बिलासपुरविभागे ज्योत्सना-आई.टी.आई.हमीरपुरे एवं च शिमलाविभागे सरस्वतीविद्यामन्दिर-विकासनगर-शिमलायां च 400 वर्गार्थिनः 75 प्रबन्धकाः शिक्षकाः च भागं गृह्णन्तः सन्ति। त्रयाणाम् अपि आवासीयप्रबोधनवर्गाणां समापनं 11 जनवरी 2023 तमे दिनाङ्के निश्चितं वर्तते ।.


  • Post By : Himachal Pradesh
  • |
  • 09-01-2023
  • |