सौराष्ट्र-प्रदेशे सम्पन्नम् ओन्-लाईन संस्कृत-बाल-शिबिरम्
६.७.२०२० तः १२.७.२०२० पर्यन्तं सौराष्ट्रस्य महिलागणः वेबेक्स् द्वारा ओन्-लाईन बाल-संस्कृत-शिबिरस्य आयोजनम् अकरोत्। समग्रस्य सौराष्ट्रस्य ३० बालाः शिबिरे अस्मिन् भागम् अवहन्। सौराष्ट्र-गणस्य सदस्या सुश्रीकोमल भट्ट अस्य शिबिरस्य मुख्यसंयोजिका आसीत्। शिबिरे अस्मिन् मोरबीवास्तव्या श्रीमती पायल भट्ट तालालावास्तव्या कुमारी पायल चावडा कुमारी देवांशी भिण्डे श्रीमती जाह्नवी शुक्ल च पाठनं कृतवत्यः। शिबिरस्य समापनकार्यक्रमे मुख्यातिथित्वेन जूनागढे भक्तकवि-नरसिंह-महेता-विश्वविद्यालयस्य कुलगुरवः संस्कृतभारत्याः सौराष्ट्र-प्रदेशस्य उपाध्यक्षाः च प्रोफेसर चेतन त्रिवेदि महोदयाः उपस्थाय बालान् उद्बोधितवन्तः। कर्णावतीस्थः श्रीभाविनः पाठकः समापाकार्यक्रमे मुख्यवक्तृत्वेन उपस्थितः आसीत्। सः बालानां कृते रञ्जकतया संस्कृतपठनाय आन्तर्जाले समुपलब्धानां स्रोतसां परिचयं कारितवान्। कार्यक्रमः एषः सम्पूर्णतया शिबिरे पठितवद्भिः एव सञ्चालितः। अत्र बालाः विभिन्नान् रञ्जनकार्यक्रमान् प्रास्तुवन्। अस्य कार्यक्रमस्य संस्कृतभारती गुजरातस्य फेसबुक-पुटे जीवत्-प्रसारणं कृतम्। अस्यामेव शृङ्खलायां समग्रे सौराष्ट्रप्रदेशे प्रतिविभागम् ईदृशानि बालशिबिराणि समायोजयिष्यन्ते।.
- Post By : Saurashtra
- |
- 15-07-2020
- |









