Top
Samskrita Bharati - South Karnataka
संस्कृतभारती - दक्षिणकर्णाटक
Latest Media & News
Preview Media & News

मैसूरु संस्कृतभारती शिबिरसमारोपकार्यक्रमः।
मैसूरु महानगरे १४/१०/२०१९ तः २५/१०/२०१९ पर्यन्तं मैसूरु विश्वविद्यानिलयस्य संस्कृताध्ययनविभागे दशदिनानि संस्कृतसम्भाषणशिबिरमभवत्। अस्य शिबिरसमारोपकार्यक्रमे अद्यक्षत्त्वेन वि।वि।कुलसचिवः आर्।शिवप्पवर्यः आसीत् । संस्कृतकार्याय वि।वि। सहकारः सर्वदा अस्तीति उक्तवान्। अभ्यागतः निवृत्तसंस्कृताध्यापकश्च प्रो।एम्।आर्।वीरभद्रस्वामिवर्योपि आसीत् । संस्कृतसम्भाषणस्य महत्वमपि तेनोक्तम्। सं।अ।विभागद्यक्षः विद्वान् डा।।नारायणभट्टोपि कार्यक्रमेस्मिन् संस्कृताद्ययनविभागः न केवलं अत्रत्य छात्राणां अपि तु समाजस्य संस्कृतभाषां जनभाषां कर्तुं संस्कृतभारत्याः सहयोगेन अत्र शिबिराणि चालयामः संस्कृतभाषायाः वर्धनदृष्ट्या एतादृशेषु कार्येषु अस्माकं सहकारः सर्वदा अस्तीति उक्तंच। शिबिरेस्मिन् ३० अधिकछात्राः आसन्। पर्वतवर्धिनी भगिनी शिबिरं चालितवति।.


  • Post By : South Karnataka
  • |
  • 25-10-2019
  • |