Top
Samskrita Bharati - Saurashtra
संस्कृतभारती - सौराष्ट्र
Latest Media & News
Preview Media & News

संस्कृतभारत्या: सौराष्ट्र-प्रान्तस्य प्रान्त-समीक्षा-योजना-गोष्ठी सम्पन्ना
दि.२८-०१/०३/२०२६ रविवासरे राजकोट-नगरस्य सेवाभारती-कार्यालये संस्कृतभारत्या: सौराष्ट्र-प्रान्तेद्वारा प्रान्तस्तरीया समीक्षा-योजना-गोष्ठी आयोजिता आसीत्। अस्यां गोष्ठ्यां सौराष्ट्र-प्रान्तस्य प्रान्त-जनपद-स्तरीयाः कार्यकर्तारः सोत्साहम् उपस्थिताः आसन्। गोष्ठ्याः मुख्यम् उद्देश्यं गतवर्षे चिन्तितानां कार्यक्रमाणां समीक्षा, आगामिवर्षस्य योजनानां विन्यासः तथा संस्कृत-प्रचार-प्रसार-प्रवर्धनार्थं मार्गदर्शन-प्राप्तिश्च आसीत्।
अस्यां गोष्ठ्यां मुख्य-अतिथिरूपेण अखिलभारतीय-प्रशिक्षण-प्रमुखः श्रीराम-महोदयः उपस्थितः आसीत्। स्वीय-व्याख्याने सः अवदत् यत् संस्कृत-भाषा केवलं प्राचीनभाषा न, अपितु भारतीय-संस्कृतेः ज्ञान-परम्परायाश्च जीवित: आधारस्तम्भः अस्ति। संस्कृत-प्रसारेण राष्ट्रिय-एकता, सांस्कृतिक-गौरवम्, नैतिक-मूल्यानां च विकासः संभवति। तेन कार्यकर्तारः ग्राम्य-स्तरपर्यन्तं संस्कृत-शिक्षण-कार्यक्रमान् प्रापयितुं प्रेरिताः।
अस्मिन् प्रसंगे संस्कृतभारत्या: सौराष्ट्र-प्रान्तस्य अध्यक्षः डॉ. सुकान्तकुमार: सेनापति: प्रान्तस्य विविध-प्रवृत्तीनां विस्तृतं प्रतिवेदनं प्रस्तुतवान्। प्रान्त-मन्त्रिणा पंकज-त्रिवेदिना आवर्षम् आयोजितानां शिविराणां, संवाद-वर्गाणां, संस्कृत-सम्भाषण-वर्गाणां, कार्यक्रमाणां च विवरणं प्रदत्तम्। गतवर्षस्य आयामानुसारि वृत्तम् अपि प्रस्तुतम् ।
उपाध्यक्षा-धनेश्री-भट्ट-महोदया तथा प्रान्त-सहमन्त्री प्रणव: राज्यगुरु: आगामि-वर्षस्य विस्तृतां कार्ययोजनां निरूपितवन्तौ । प्रणव-राज्यगुरुणा पावर्-पोइण्ट्-प्रस्तुतिद्वारा संस्कृत-कार्यस्य सुदृढीकरणार्थं मार्गदर्शनं दत्तं तथा अखिलभारतीय-वृत्तं प्रस्तूय प्रान्तस्तरे करणीयानि कार्याणि निर्दिष्टानि । प्रान्त-न्यासिन: विठ्ठलभाई-वागडियामहोदयः, वल्लभभाई-सिदपरामहोदयः, पंकजभाई-पाचाणीमहोदयः च उपस्थिताः आसन्।
अस्यां गोष्ठ्यां राष्ट्रिय-स्वयंसेवक-संघस्य सौराष्ट्र-प्रान्तस्य प्रान्त-संघचालकः मुकॆश-मलकाणमहोदयः, प्रान्त-प्रचारकः महेशभाई-जीवाणीमहोदयः च विशेषतया उपस्थितौ आस्ताम्। ताभ्यां संस्कृत-प्रचार-प्रसाराय संघसंस्कृतभारत्योः सहयोगं सुदृढीकर्तुं महत्त्वपूर्णाः सूचनाः प्रदत्ताः तथा पञ्चपरिवर्तनविषये अपि मार्गदर्शनं दत्तम्।
गोष्ठ्याः अन्ते सर्वे कार्यकर्तारः संकल्पं कृतवन्तः यत् संस्कृतं गृहं गृहं प्रति नीत्वा नव-ऊर्जया समर्पण-भावेन कार्यं करिष्यन्ति। समग्रः कार्यक्रमः सौहार्दपूर्णे प्रेरणादायक-परिवेशे सम्पन्नः। आवास-भोजनादि-व्यवस्था राजकोट-कार्यकर्तृभिः सुचारुरूपेण संपादिता। समग्रकार्यक्रमस्य वृत्तविवरणं वर्तमानपत्रीयं च सङ्कलनं प्रान्त-प्रचार-प्रमुखः डॉ. किशोर-शेलडिया: सम्पादितवान् ।.


  • Post By : Saurashtra
  • |
  • 05-03-2026
  • |