गांधीनगरविभागस्य अभ्यासवर्ग सोत्साहं सम्पन्न
संस्कृतभारती-गुजरातद्वारा सम्पूर्णगुजरातराज्ये अभ्यासवर्गा समायोज्यन्ते । अस्मिन् क्रमे 21-07-2019 दिनांके श्रीशक्तिपीठमन्दिर-गियोडस्य पावनपरिसरे गांधीनगरविभागीय अभ्यासवर्ग सोत्साहं सम्पन्न । अभ्यासवर्गेs स्मिन् गांधीनगर-साबरकांठा-अरवल्लीजनपदानां 38 कार्यकर्तृभि सह आहत्य पंचचत्वारिंशत् जना संस्कृतस्य संवर्धनाय प्रचार-प्रसाराय चिन्तनं कृतवन्त । अभ्यासवर्गे आगामिवर्षस्य करिष्यमाणकार्याणां योजना सामूहिकचिन्तनसहिता सिद्धा । प्रान्तपक्षत प्रान्तसम्पर्कप्रमुख डॉ. ललित पटेल प्रान्तशिक्षणप्रमुख श्री भाविन पाठकश्च विशेषेण उपस्थितौ आस्ताम् । कार्यकर्तृविषयकं बौद्धिकं संघस्य गांधीनगरप्रौढ़शिक्षणप्रमुख श्री महेन्द्र भावसार दत्तवान् । पाथेयव्याख्यानं संस्कृतभारती-गांधीनगरस्य मार्गदर्शिका विदुषी डॉ. योगिनी व्यास कृतवती । कार्यक्रमे श्री रामचन्द्र पटेल श्री एच. के. पटेल श्री धीरेन्द्र मिश्र विशेषेण उपस्थिता आसन् । कार्यक्रमस्य संयोजनं गांधीनगरविभागसंयोजक डॉ. भावप्रकाश गांधी गांधीनगरजनपदसंयोजक श्री हिमांशु पण्ड्या बिन्दुभगिनी पूजाभगिनी ओजसीभगिनी हीनाभगिनी कृतवन्त ।.
- Post By : Gujrat
- |
- 23-07-2019
- |
















