Top
Samskrita Bharati - Telangana
संस्कृतभारती - तेलङ्गाना
Latest Media & News
Preview Media & News

संस्कृत दिनोत्सवः - कल्याण तिरुपति वॆंकटेश्वर मंदिरं, पद्मा नगर्, चिंतल्
केंद्र प्रभुत्वेन आयोजित संस्कृत सप्ताह संदर्भे अस्माकं कळ्याण तिरुपति देवस्थाने 15-08-2024 दिनाङ्के संस्कृत दिनोत्सवम् आचरितम्।
सर्वे सामाजिकाः विश्वपति महोदय:, राजीव महोदय:, सत्यनारायण महोदय: च कार्यक्रमे भागं स्वीकृतवन्तः।

*** सार्थ​-चतुर्वादने शोभायात्रा नगरस्य वीधिषु कृतम्। बहवः छात्राः शिक्षकाः कार्यकर्तारः नागरिकाः च भागं स्वीकृतवन्तः।
*** सार्थ​-पञ्चवादने दीपप्रज्वलनं सुब्रह्मन्यं महोदयेन​, कोम्पेल्ल माधवी महोदयया, कैपा पद्मावती महोदयया, आनन्दकुमार महोदयेन कृतम्।
*** तदनन्तरं बालाः मनोरञ्जन प्रदर्शनानि कृतवन्तः।

गिरि हरिनाथबाबु महोदयस्य मार्गदर्शनेन​ शिक्षिकाः वि. नागवाणी, जि.पार्वती, पि. स्वप्ना शिक्षिकाश्च मिलित्वा एतं कार्यक्रमं समायोजयन् ।

कार्यक्रमस्य विवराणि
सभाध्यक्षः : सि हॆच् ब्रह्मं महोदयः, देवस्थानस्य ट्रस्टी
विशिष्टातिथिः : श्रीमति कॊंपल्लि माधवि महोदय, डिस्टिक् टौ न् प्लानिंग् कमिषनर्
मुख्यवक्ता : आनंदकुमार महोदयः, प्रांत प्रचार प्रमुखः

तत्रेव वस्तु प्रदर्शिनी अपि आयोजितम्।.


  • Post By : Telangana
  • |
  • 19-08-2024
  • |