संस्कृतसम्भाषणशिबिरम्, स्थानम् :- श्री प्रणवानन्दः संस्कृतभवनम्, रेसकोर्स, राजकोटम् ।
कवि श्री दादः सर्वकारी विनयन एवं वाणिज्य महाविद्यालय: पडधरी, स्वामी श्री प्रणवानन्दः संस्कृतप्रचार ट्रस्ट: राजकोट एवं संस्कृतभारती राजकोटमहानगरम् इत्यनयोः संयुक्तोपक्रमेण आयोजित:*
🕉️ *संस्कृतसम्भाषणशिबिरम्* 🕉️
*दिनाङ्कः* - ०४/१२/२०१५ तः १३/११/२०१५ पर्यन्तम् । *समयः*- सायं ०४:३० तः ०६:३० पर्यन्तम् ।
स्थानम् :- श्री प्रणवानन्दः संस्कृतभवनम्, रेसकोर्स, राजकोटम् ।
शिबिरस्य उद्घाटन कार्यक्रमे मुख्य अतिथयः संस्कृतभारती गुजरातस्य न्यासी *श्री विठ्ठलभाई वागडीया,* एवञ्च संस्कृतभारती प्रान्तसाहित्यप्रमुख: *श्री पंकजभाई पांचाणी*, कविश्री दादः सर्वकारी विनयन एवं वाणिज्य महाविद्यालय: पडधरीतः *प्राचार्यश्री कमलभाई छाया महोदय:*, स्वामी श्री प्रणवानन्दः संस्कृतप्रचार- ट्रस्ट:, राजकोटतः *श्री कौशिकभाई छाया महोदय:* दीपप्रज्ज्वालनेन शिबिरस्य उद्घाटनम् कृतवन्तः। संस्कृतभारती सौराष्ट्रप्रान्तस्य प्रान्त महाविद्यालय प्रमुख: *डॉ. कान्तिः काथड:* मुख्य शिक्षक: तथा संस्कृतभारती राजकोटस्य संयोजिका *श्री हीनाभगिनी सोनागरा*, सहायकशिक्षिका रूपेण पाठितवन्त:। संस्कृतभारती राजकोटजनपद महाविद्यालय प्रमुख: *श्री जगमाल भाई करङ्गीया*, उद्घाटन समारोहस्य सञ्चालनम् कृतवान्।
अस्मिन् वर्गे विद्यार्थीनाम् सङ्ख्या आहत्य *३८* आसीत् ।
संस्कृतभारत्याः कार्यकर्तारः अपि अस्मिन् ज्ञानयज्ञे सहभागं कृतवन्तः।
दशदिनात्मकम् संस्कृत सम्भाषण शिबिरस्य अन्तिमे दिने समापन समारोह: आयोजितः। तत्र मुख्य अतिथि संस्कृतभारती प्रान्तसाहित्यप्रमुख: *श्री पंकजभाई पांचाणी*, च कविश्री दादः सर्वकारी विनयन एवं वाणिज्य महाविद्यालय: पडधरीतः
सहायक प्राध्यापक च स्पिपा संस्थायां मार्गदर्शक: *श्री अश्विनभाई परमार महोदय:* आसन्। कुमारी नैसर्गी महेता कार्यक्रमस्य सुचारू सञ्चालनं कृतवती। श्री पंकजभाई पांचाणी संस्कृतभारती एवञ्च संस्कृत सम्भाषण आन्दोलनं कथम् आरब्धम् इति शिबिरार्थिनः ज्ञापितवान्। श्री अश्विनभाई परमार अपि प्रासंगिक वक्त्व्येन शबिरार्थिनः बोधितवान्। शिबीरार्थिनः यत् पठितम्, तत् गीत माध्यमेन, संवादेन, दिनचरी च अनुभवकथनेन प्रदर्शितवन्तः।.
- Post By : Saurashtra
- |
- 05-03-2026
- |









