Top
Samskrita Bharati - Himachal Pradesh
संस्कृतभारती - हिमाचलप्रदेश:
Latest Media & News
Preview Media & News

संस्कृतसम्भाषणाभ्यासाय संस्कृतसप्ताहावसरे सम्भाषणवर्गाणाम् आयोजनं कृतम्
बृहद्हिमालयपर्वतशृङ्खलायाः पश्चिमे अवस्थिते देवपरम्परा परिपूर्णे देवभूमौ हिमाचलप्रदेशे संस्कृतस्य सुप्रचारार्थं प्रसारार्थं च संस्कृतभारतीसंघटनं सततं कार्यं करोति एव। अस्मिन् 2020 तमे क्रैस्ताब्दे संस्कृतभारत्याः वार्षिककार्यक्रमेषु अन्यतमस्य संस्कृतसप्ताहस्य आचरणं जुलाईमासस्य 31 दिनाङ्कात् अगस्तमासस्य 6 दिनाङ्कपर्यन्तं जातम्। तत्र समग्रहिमाचलप्रदेस्य जनानां संस्कृतसम्भाषणाभ्यासाय संस्कृतसप्ताहावसरे 5 सम्भाषणवर्गाणाम् आयोजनं कृतम्। इमे वर्गाः संस्कृतसप्ताहारम्भस्य पूर्वसन्ध्यायामेव 28 दिनाङ्के समारब्धाः। तेषां वर्गाणां संक्षेपतः विवरणम् अत्र प्रस्तूयते –
 वर्गाणां संख्या - 5
 वर्गप्रकारः - सामाजिकवर्गाः
 माध्यमः - गूगलमीट
 शिक्षकाः - डा. सत्यदेवः श्री ओंकारचन्दः श्री मनोजकुमारः डा. मनीषजुगरानः श्री हीरासिंहः
 अवधानकर्तारः - डा. मुकेशकुमारः श्री पन्नालालः डा. ज्ञानेश्वरशर्मा
 सहशिक्षकाः - सुश्री चांदनी श्रीलवीशः सुश्री शबनम श्रीराकेशः श्री नीरजः
 आहत्य पञ्जीकृताः वर्गार्थिनः - 250
 वर्गे आन्तं स्थिताः वर्गार्थिनः - 115.


  • Post By : Himachal Pradesh
  • |
  • 07-10-2020
  • |