Top
Samskrita Bharati - Malva
संस्कृतभारती - मालवा
Latest Media & News
Preview Media & News

प्रान्तसमीक्षायोजनागोष्ठी
अद्य इंदौरनगरे प्रान्तसमीक्षायोजनागोष्ठी सम्पन्ना जाता।
गोष्ठ्यां अखिल भारतीय: पत्राचार: प्रमुख: श्री हुल्लासचंद्र: महोदय: मार्गदर्शनं कृतवान्। महोदयेन सह वयं संस्कृत भारत्या: क्षेत्रीय: संयोजक: महोदय: श्री भरतबैरागी महोदयस्य मार्गदर्शनम् अपि प्राप्तवन्त:। गोष्ठया: केचन् बिन्दव: अधोलिखिता: सन्ति -

१. गतवर्षे कियत् कार्यम् अभवत् तस्मिन् विषये चर्चा जाता। गोष्ठ्यां संस्कृत भारत्या: विविधनाम् आयामानां विषये विस्तृतरूपेण चर्चा अपि जाता। हुल्लासमहोदयेन संगठनस्य कार्यविस्ताराय तथा च कार्यदृढीकरणाय सर्वेषाम् उत्तमरूपेण मार्गदर्शनं कृतम्। संस्कृतभाषा बाला:, युवानः, महिला:, वृद्धा: सर्वेषाम् अस्ति। अत: समाजस्य सम्पूर्णअङ्गेषु संस्कृत भाषाया: सञ्चार: भवेत्, अस्मिन् विषये भरतबैरागी महोदय: सवेषाम् उत्तमरूपेण मार्गदर्शनं कृतवान्। अग्रिमे सत्रे सम्पूर्णवर्षस्य योजना निर्मिता जाता।
2. अप्रेलमासे अस्माभि: अम्बेडकरजयंती-उत्सव: आचरणीय: अस्ति। एतेन सह वर्गस्य कृते सज्जताम् अपि करणीया अस्ति
3. मईमासे १५ दिनाङ्कत: २३ दिनाङ्कपर्यन्तम् इंदौरनगरे सुदर्शनकार्यालये प्रबोधनवर्ग: निश्चित: अस्ति।

अस्मिन् एव मासे १७ दिनाङ्कत: ३० दिनाङ्कपर्यन्तम् झीरीग्रामे क्षेत्रस्य प्रशिक्षणवर्ग: भविष्यति। एतस्य वर्गस्य कृते ये न्यूनातिनून्यम् पञ्च शिबिराणि चालितवन्त: तादृशा: छात्रा: प्रेषणीया:।

४. जूनमासे धनसंग्रहणं करणीयम्।
5. जुलाईमासे उच्चतर माध्यमिक विद्यालयस्य छात्राणाम् कृते तथा च महाविद्यालयस्य छात्राणाम् कृते शिबिर-अभियानम् चालनीयम्।6. अगस्तमासे संस्कृतसप्ताहम् आचरणीयम्।
७. सितम्बरमासे पत्राचार-अभियानम् करणीयम्।
8. अक्टूबरमासे सरला संस्कृतपरीक्षा अभियानम् तथा करणीयम् तथा च वाल्मीकिजयन्ती-उत्सव:
आचरणीयम्।
९. नवंबर मासे
10.दिसंबरमासे-सामाजिक-शिबीराणाम् आयोजनम् ।
११. जानेवरीमासे प्रान्तसम्मेलनम् तथा च प्रवास अभियानम् अस्ति।
12. फरवरीमासे समीक्षा योजनागोष्ठी पुन: भविष्यति।
१३. सितम्बरत: दिसंबरमास पर्यन्तम् आभासीयमाध्यमेन विमर्श कक्षा भविष्यति। यस्यां सर्वे दायित्ववतां सदस्या: भागं स्वीकरिष्यन्ति।.


  • Post By : Malva
  • |
  • 08-04-2024
  • |