Latest Media & News
Preview Media & News

राजभवने सम्भाषणशिबिरस्य समारोपः
राजभवने 19 मई 2022 दिनाङ्के महामहिम्नः राज्यपालमहोदयस्य अध्यक्षतायां 18 एप्रिल् 2022 तमे दिने आरब्धस्य सम्भाषणशिबिरस्य समारोपः अभूत् । अवसरे अस्मिन् मुख्यवक्तृरूपेण अखिलभारतीयसंघटनमन्त्री श्रीमान् दिनेशकामतमहोदयः उपस्थितः आसीत् । विशिष्टातिथिरूपेण उत्तरक्षेत्रसंघटनमन्त्री श्रीमान् नरेन्द्रकुमारः
अपि च दीनदयालचिकित्सालयस्य अधीक्षकः श्रीमान् लोकेन्द्रशर्मा उपस्थितौ आस्ताम् । शिबिरे अस्मिन् शिबिरार्थिनां संख्या प्रायेण 30 इति आसीत् । शिबिरशिक्षकः प्रान्तसम्पर्कप्रमुखः आचार्यः ओङ्कारमहोदयः आसीत् ।.
- Post By : Himachal Pradesh
- |
- 25-05-2022
- |