संस्कृत-सप्ताहस्य विभिन्नकार्यक्रमाणां सिद्धतायै कार्याशाला
२३ दिनाङ्के रविवासरे दक्षिणविभागे कामाक्षीदेवीमन्दिरे संस्कृत-सप्ताहस्य विभिन्नकार्यक्रमाणां सिद्धतायै कार्याशालाया:आयोजनं जातम् ।आहत्य 16 कार्यकर्तार: समुपस्थिता: सोत्साहं कार्यं च कृतवन्तः।सर्वेषां कार्यकर्तृभ्यः संस्कृत-सप्ताहस्य सिद्धताया: शुभश्रीगणेशाय साधुवाद:।
शुभरात्रि:मित्राणि!
पूर्वसूचनानुसारेण अद्य पूर्वीविभागे देहली कान्वेण्ट विद्यालय-गणेशनगर-पाण्डवनगरे साप्ताहिकी कक्षा आरव्धा|
यत्र भाषाशिक्षणम् गीताश्लोकपरायणम् एवं च व्याकरणे-लघुसिद्धान्तकौमुद्या:आरम्भश्च कृत:|
गतदिने दिल्लीविश्वविद्यालयस्य "ग्वॉयर हाल" छात्रावासे एका गोष्ठी आसीत् | गोष्ठ्याम् एकादश जना: उपस्थिता: आसन् | गोष्ठी वाहनशोभायात्रायै कल्पितासीत् | गोष्ठ्यां DU JNU LBS विश्वविद्यालयेभ्य: सहभागिता आसीत् | प्रान्तमन्त्री महोदय: गोष्ठ्यां मार्गदर्शनमकरोत् |.
- Post By : Delhi
- |
- 22-10-2018
- |



.jpeg)

























