भाषाबोधनवर्गाः
संस्कृतं किमर्थम् इति सामान्यतः जनधारणा परन्तु अत्युष्णग्रीष्मकाले शतशः जनानां संस्कृताभ्यासः इति रोमाञ्चजनकः अनुभवः । संस्कृतभारती इति संस्थया प्रतिवर्षं प्रतिराज्यं समग्रे देशे ग्रीष्मकाले आवासीयवर्गाणाम् आयोजनं क्रियते । एतेषु वर्गेषु सहस्रशः जनाः उत्साहेन भागं वहन्ति। आश्चर्यमिदं यत् संस्कृतं पठितुं केवलं संस्कृतविषयं स्वीकृतवन्तः छात्राः एव न आगच्छन्ति परन्तु व्यवसायिकाः निवृत्ताः गृहिण्यः वैद्याः श्रमिकाः च आगच्छन्ति । गुजरातप्रान्ते अपि स्थानद्वये राजकोटनगरे जेतलपुरे च भाषाबोधनवर्गौ सम्पन्नौ । एतयोः वर्गयोः उपद्विशतं छात्राः आदिनं संस्कृतं पठितवन्तः केवलं दशदिवसेषु एव सामान्यं सम्भाषणं कर्तुं समर्थाः च जाताः । विद्यालयस्य शिक्षणम् इव अत्र अभ्यासः न भवति परन्तु क्रिया-क्रीडाद्वारा पाठनं भवति । वर्गस्य दिनचर्यानुसारं आदिनं संस्कृतकार्यक्रमाः भवन्ति । द्वयोः वर्गयोः समापनकार्यक्रमे नगरस्य गणमान्याः नागरिकाः अतिथयः च उपस्थिताः भूत्वा छात्राणां उत्साहं वर्धितवन्तः ।
संस्कृतं भारतस्य विश्वस्य च प्राचीनतमा भाषा अस्ति परन्तु आङ्ग्लभाषाप्रभावकारणात् अन्यकारणैः च संस्कृतभाषायाः महत्त्वं न्यूनीभूतमासीत् परन्तु संस्कृतभारत्याः प्रशंसनीयप्रयत्नैः समाजे वातावरणं परिवर्तितमस्ति । मूल्यशिक्षणाय धर्मग्रन्थावगमनाय च संस्कृतपठनं इति सर्वानुमतम् ।
संस्कृतभारतीद्वारा महेमदाबादनगरे अपि संस्कृतं सरलतया कथं पाठनीयं इति लक्ष्यीकृत्य शिबिरचालनप्रशिक्षणवर्गः अपि आयोजितः अस्ति । एतस्मिन् वर्गेऽपि सप्तविंशतिः छात्राः शिबिरचालनप्रशिक्षणं पठन्तः सन्ति । एते छात्राः शिबिरानन्तरं स्वस्थानं गत्वा संस्कृतशिबिराणी चालयिष्यन्ति ।.
- Post By : Gujrat
- |
- 01-06-2019
- |
















