Top
Samskrita Bharati - North Karnataka
संस्कृतभारती - उत्तरकर्णाटक
Latest Media & News
Preview Media & News

समीक्षायोजनागोष्ठी सम्पन्ना
अस्य वर्षस्य कर्णाटक-उत्तಔरप्रान्तस्य समीक्षायोजनागोष्ठी मार्च मासस्य २२-२३ दिनाङ्कयोः शिरसी नगरस्य लिङ्गद कोण कल्याण मण्डपे सम्पन्ना । अ. भा. उपाध्यक्षा श्रीमती अमिता महोदया उपस्थिता आसीत् । विभिन्नेभ्यः जनपदेभ्यः ७० कार्यकर्तारः आगताः आसन् । गोष्ठयाः प्रथमे दिने कार्यकर्तृवर्धनं, कार्यकर्तृणाम् मध्ये कुटुम्बभावस्य वर्धनं, मातृजिल्ला इत्यादीषु विषयेषु चर्चा अभवन् । गोष्ठयाः द्वितीयदिने प्रान्तस्य सहमन्त्री श्रीमान् श्रीकान्त कुलकर्णि कार्य-दीपिका नाम्ना पवर् पाइंट प्रेसेन्टेशन् दर्शयित्वा सङ्घटनं, शिक्षणं च विषयौ अपि चर्चां कृतवन्तः । साप्ताहिकमेलनस्य प्रात्यक्षिका अपि कृता ।गतवर्षस्य कार्याणि समीक्षितानि, अग्रिमवर्षस्य योजनाः च सूचिताः । नूतनप्रयोगाणां चर्चा अपि कृता । अन्ते नूतनानि उत्तरवायित्वानि च घोषितानि । गोष्ठयां दक्षिणमध्यक्षेत्रस्य मन्त्री श्री नागराजः, प्रान्तस्य अध्यक्षः प्रो. जी. आर्. अम्बली, उपाध्यक्षः श्री चन्द्रशेखरः, मन्त्री श्री रामसिङ्ग राजपूतः, सहमन्त्री श्री श्रीकान्त कुलकर्णि, मठमन्दिरसम्पर्कप्रमुखः श्री रामकृष्ण तद्दलसे, सङ्घटनामन्त्री श्री लक्ष्मीनारायणः उपस्थिताः आसन् । दिनद्वयस्य एषा गोष्ठी कार्यकर्तृणाम् उत्साहवर्धनाय अभवत् ।.


  • Post By : North Karnataka
  • |
  • 26-04-2025
  • |