गीताशिबिरम् - २०१८
दिनत्रयात्मकं गीताशिबिरं डिसम्बर्-मासस्य २८ २९ ३० दिनाङ्केषु सम्पन्नम् ।
भूतपूर्वः निर्वाचनाधिकारी मान्यः श्री.एन्.गोपालस्वामी विद्यालयस्य मुख्याधिकारी श्री.नमशिवायः मद्रपुरी-संस्कृतमहाविद्यालयस्य प्रांशुपालः श्री.राधाकृष्णवर्यः तमिळ्भाषापण्डितः श्री.राघवः इत्येतेषां समाजे तथा शिक्षणक्षेत्रे प्रतिष्ठितानां मुख्यातिथ्येन कार्यक्रमस्य उद्घाटनं सञ्जातम् ।
भगवद्गीतायाः चतुर्दशाध्यायस्य प्रवचनमासीत् ।
नूतनेभ्यः सम्स्कृतसम्भाषणवर्गः प्रगतस्तरेभ्यः व्याकरणवर्गः कार्यकर्तृभ्यः सङ्घटनस्य कार्यबोधकः वर्गः बालभारत्याः तथा बालकेन्द्रस्य चालनार्थं प्रेरणात्मकः विशेषवर्गः - इत्येवं विधाः विभिन्नाः वर्गाः समायोजिताः ।
तमिळ्-संस्कृतभाषयोः परस्परसम्बन्धः प्रदर्शिनी द्वारा प्रकाशितः ।
वादमण्डपः आयोजितः ।
सप्तदश-नूतनबालकेन्द्राणाम् उद्घोषणं सञ्जातम् ।
कार्यकर्तृमेलने २०२०तम-वर्षपर्यन्तं कार्यस्य प्रारूपं सञ्चिन्तितम् ।
गुजरात-देहली-मुम्बै-विशाकपट्न-प्रान्तेभ्यः छात्रैः उपस्थिते अस्मिन् शिबिरे द्विशताधिकाः भागभागिनः आसन् ।.
- Post By : North Tamilnadu
- |
- 13-01-2019
- |











