Top
Samskrita Bharati - Utkal
संस्कृतभारती - उत्कल
Latest Media & News
Preview Media & News

देवगड़जनपदे गीताजयन्ती पालनमभवत्
देवगड़जनपदे गीताजयन्ती

श्रीमद्भगवद्गीता भारतीयसंस्कृतौ महन्महत्त्वम् आवहति । सर्वासाम् उपनिषदां सारः गीतायां वर्णितः अस्ति । गीतायाः भाषा संस्कृतम् । सरलसंस्कृतेन गीतायाः रचना अभवत् अतः सर्वे अपि जनाः गीतायाः सामान्येन अभ्यासेन गीताश्लोकानाम् उच्चारणं कर्तुं शक्नुवन्ति । अतः जनानां संस्कृतं प्रति गीतां च प्रति अभिरुचेः वर्धनार्थं संस्कृतभारती विविधान् प्रयासान् कुर्वती अस्ति । देवगडजनपदस्य तेलेईबणीखण्डस्य लम्बुडुराग्रामे संस्कृतभारती, देवगड़पक्षतः गीताजयन्ती पालनमभवत् । अस्मिन् कार्यक्रमे श्रीमद्भागवतगीतायाः १८ अध्यायानां पारायाणमभवत् ।.


  • Post By : Utkal
  • |
  • 07-01-2024
  • |