Top
Samskrita Bharati - Uttarakhand
संस्कृतभारती - उत्तराखण्ड
Latest Media & News
Preview Media & News

04-03-24दिनांके हल्द्वान्यां श्रीमहादेवगिरिशिवमन्दिरं नवाबीरोड इत्यत्र संस्कृतसम्भाषणशिबिरम्
04-03-2024 दिनांके सोमवासरे हल्द्वान्यां श्रीमहादेवगिरि-शिवमन्दिरं नवाबी-रोड इत्यत्र दशदिवसीय-सरलसंस्कृतसम्भाषणशिबिरस्य उद्घाटनम् अभवत्।
उद्घाटनकार्यक्रमस्य आरम्भ: सरस्वती-मातु: पुरत: दीपप्रज्ज्वलनेन जात: ।कार्यक्रमेsस्मिन् मुख्यातिथि-रूपेण कुमाऊँसम्भाग-सम्पर्कप्रमुख: ज्योतिर्विद् श्रीप्रकाशचन्द्र भट्ट महोदय: आसीत्। प्रास्ताविक-उद्बोधनं प्रान्तसहमन्त्री डॉ. चन्द्रप्रकाश उप्रेती महोदयेन कृतम् ।महोदयेन संस्कृतभारतीति संघटनविषये तथा तस्य कार्याणां विषये सर्वेsपि बोधिता: ।नैनीताल-विभागसंयोजक: डॉ. जगदीशचन्द्र पाण्डेय: सर्वेषां धन्यवादं प्रकटितवान् तथा सर्वेभ्यः शिबिरे मनोयोगेन पठनाय प्रेरितवान्
कार्यक्रमस्य सफलसञ्चालनं नैनीताल-जनपदसम्पर्कप्रमुख: डॉ. हेमन्त जोशी महोदयेन कृतम्।
शिबिरशिक्षक: हल्द्वानी-महानगरसंयोजक: डॉ. कैलाशचन्द्र सनवाल महोदय: जनान् शिबिरस्य लाभं गृहीतुं निवेदितवान्
कार्यक्रमे श्रीमान् रवि पाण्डेय:, मोहन पाण्डेय:, कैलाशगुरुरानी, रचितपंतः, विवेकतिवारी, भानु, राजु, हिमांशु, गोकुलः, तनुजः इत्यादयः उपस्थिताः आसन् ।
वन्दे संस्कृतमातरम्।
..


  • Post By : Uttarakhand
  • |
  • 04-03-2024
  • |