Top
Samskrita Bharati - Himachal Pradesh
संस्कृतभारती - हिमाचलप्रदेश:
Latest Media & News
Preview Media & News

“विद्यालयीयकार्यम्” अस्य आयामस्य द्विदिवसीय-अभ्यासवर्गस्य समापनम्
संस्कृतभारती-हिमाचलप्रदेशस्य “विद्यालयीयकार्यम्”आयामस्य सद्यस्कमाध्यमेन आयोजितस्य द्विदिवसीय-अभ्यासवर्गस्य विवरणम्

अयं वर्गः २९-०५-२०२१ तः ३०-०५-२०२१ पर्यन्तम् आसीत् अभ्यासवर्गस्य अवधिः – अपराह्णे २ ०० तः ४ ०० वादनपर्यन्तम् अत्र हिमाचलप्रान्तस्य प्रायेण उपपञ्चत्रिंशत् प्रतिभागिनः भागम् अगृह्णन् । अभ्यासवर्गे प्रतिदिनं सत्रद्वयम् आहत्य दिनद्वये चत्वारि सत्राणि निर्धारितानि आसन्।
२९-०५-२०२१ प्रथमदिवसे प्रथमसत्रम् ‘आयामपरिचयः’ इति विषयाधारितं प्रान्त-आयाम-प्रमुखः द्वितीयसत्रं ‘दायित्वबोधः कार्यस्पष्टता च’ इति विषयाधारितं प्रान्तमन्त्री च स्वीकृतवन्तौ । ३०-०५-२०२१ द्वितीयदिवसे प्रथमसत्रम् ‘चर्चासत्रं कार्ययोजना च’ इति विषयाधारितं प्रान्त-आयाम-सहप्रमुखः द्वितीयसत्रं ‘पाथेयम्’ इति विषयाधारितं श्रीमान् कौशलकिशोरः (उत्तरक्षेत्रशिक्षणप्रमुखः) च स्वीकृतवन्तौ ।
विद्यालयीयकार्यम् इति आयामस्य कार्यं प्रान्तस्तरे इतोऽपि संवर्धितं स्यात् एतदुद्दिश्य एव अयम् अभ्यासवर्गः आयोजितः आसीत् ।

अभ्यासवर्ग-संयोजकौ
❋ डा.सत्यदेवः (प्रान्तविद्यालयीयकार्यप्रमुखः)
❋ डा.गिरिराजः (प्रान्तविद्यालयीयकार्यसहप्रमुखः)

अभ्यासवर्गस्य उद्देश्यानि
 प्रान्तस्तरे आयामस्य कार्यसंवर्धनम्
 कार्यकर्तॄणां सक्रियतासम्पादनम्
 जनपदस्तरे उत्तरदायित्वनिर्धारणम्
 भावियोजनासम्पादनम्
 प्रान्तस्तरे संस्कृतशिक्षकाणां सम्पर्कसंकलनम्
 संकलितसम्पर्काधारेण आयामस्य कार्यविस्तारणम्प्रक्रिया
 प्रान्तस्तरे प्रवर्तमानस्य आयामकार्यस्य उद्देश्यानां स्वरूपस्य च स्पष्टता
 निर्धारितानाम् आयामस्य उद्देश्यानां सम्पूर्त्यै कार्यकर्तृणां दायित्वबोधः कार्यस्पष्टता च
 कार्यस्पष्टतायाः दायित्वस्पष्टतायाः च आकलनाय चर्चासत्रं कार्ययोजनासन्दर्भः च
 निर्धारितकार्ययोजनायाः यशस्वितायै प्रोत्साहनत्वेन पाथेयम्

प्रथमदिवसस्य सत्रविवरणम्
❋ उपस्थितिः ३४
❋ वर्गभूमिका – डा.गिरिराजः (प्रान्तविद्यालयीयकार्यसहप्रमुखः)
❋ आयामपरिचयः – डा.सत्यदेवः (प्रान्तविद्यालयीयकार्यप्रमुखः)
❋ दायित्वबोधः कार्यस्पष्टता च – श्री सञ्जीवपाठकः (प्रान्तमन्त्री)
❋ सञ्चालकः – डा.प्रेमप्रकाशः (विद्यालयीयकार्यप्रान्तसदस्यः)

द्वितीयदिवसस्य सत्रविवरणम्
❋ उपस्थितिः २८

❋ चर्चासत्रं कार्ययोजना च – डा.गिरिराजः(प्रान्तविद्यालयीयकार्यसहप्रमुखः)+श्रीनरेन्द्रकुमारः (प्रान्तसंघटनमन्त्री)
❋ पाथेयम् – श्रीमान् कौशलकिशोरः (उत्तरक्षेत्रशिक्षणप्रमुखः)
❋ आशीर्वचांसि – श्रीमान् प्रो.लक्ष्मीनिवासपाण्डेयः (प्रान्ताध्यक्षः)
❋ धन्यवादसमर्पणम् – डा.सत्यदेवः (विद्यालयीयकार्यप्रान्तप्रमुखः)
❋ सञ्चालिका – सुश्री योगिन्द्राठाकुरः (विद्यालयीयकार्यप्रान्तसदस्या)

निर्णयाः
 विद्यालयशिक्षकसूची (संस्कृतभारतीदायित्ववन्तः+कार्यकर्तारः+शिक्षकाः सन्ति)
 04 जूनपर्यन्तं सम्पर्कसूच्याः सज्जीकरणम्
 प्रशिक्षणवर्गायोजनम्
 प्रशिक्षणवर्गस्य अवधिः – 06 जूनतः 10 जून् 2021 पर्यन्तम्
 प्रशिक्षणवर्गस्य समयः – सायं 4 00 तः 6 00 वादनं यावत्
 11-12 तः विद्यालये वर्गारम्भः सम्भावनीयः
भाविनि काले
 विद्यालयेषु संस्कृतमयवातावरणस्य आनयनम्
 संस्कृतं संस्कृतेन एव इत्यर्थं शिक्षकाणां सम्पर्कसंकलनम्
 संकलितस्य सम्पर्कस्य आधारेण प्रशिक्षणकार्यक्रमाणाम् आयोजनम्
 प्रशिक्षणकार्यक्रमान् आधारीकृत्य जनपदस्तरकार्यस्य व्यवस्थीकरणम्
 हिमाचलप्रदेशे विद्यालयीयकार्ये उत्कृष्टतासम्पादनम्
 प्रवर्तितस्य अभ्यासवर्गस्य आधारेण अग्रिमस्तरकार्यक्रमाणाम् आयोजनम्


प्रतिवेदकः
डा.सत्यदेवः
(विद्यालयीयकार्यप्रान्तप्रमुखः).


  • Post By : Himachal Pradesh
  • |
  • 15-06-2021
  • |