" पत्राचारद्वारा संस्कृतम् " आयामस्य द्विदिवसीयः अभ्यासवर्गः सम्पन्नः
अयं वर्गः ज्येष्ठप्रविष्टे १३-१४ कलियुगाब्द ५१२३ विक्रमीसंवत् २०७८
तदनुसारं २६-२७ मे २०२१ आसीत्
अस्य अभ्यासवर्गस्य उद्देश्यानि-
पत्राचारद्वारा संस्कृतमितिगणस्य परस्परं परिचय ।
आयामस्य सम्पूर्णपरिचय ।
जिलापत्राचारप्रमुखेन मम दायित्त्वं किम् ?
परस्परचर्चा कार्ययोजना च ।
मध्याह्ने त्रिवादनात् पञ्चवादनपर्यन्तम् प्रान्तपत्राचारगणसदस्या जिलापत्राचारप्रमुखा ( जिलासंयोजक / जिलाशिक्षणप्रमुख ) अस्मिन् अभ्यासवर्गे अपेक्षिता आसन् ।
अभ्यासवर्गस्य प्रथमदिवसे पूर्वयोजनानुगुणं सत्रद्वयं समायोजितम्। तत्र सर्वादौ संस्कृतभारतीसंघटनपरम्परानुसारं ध्येयमन्त्रवाचनेन अभ्यासवर्गस्य शुभारम्भ संजात । तदनु सत्रे समुपस्थितानां परिचयानन्तरं वर्गस्य प्रथमसत्रस्य प्रारम्भोऽभवत् । वर्गस्य प्रथमसत्रे प्रान्तपत्राचारप्रमुख डा. मनोजकुमारमहोदय आयामस्य सम्पूर्णपरिचयम् उद्देश्यानि च पी.पी.टी.द्वारा विशदरूपेण उपस्थापितवान् । वर्गस्य द्वितीयसत्रे अखिलभारतीयसंघटनमन्त्री मा. दिनेशकामतमहोदय जिलापत्राचारप्रमुखरूपेण मम दायित्त्व किम् ? मया किम् करणीयम् ? कथं सामजिकै सह सम्पर्क सथापनीय ? इत्यादिविषयान् उदाहरणपुरस्सरं स्पष्टम् अकरोत् । महोदयेन जिलाश जिलाप्रमुखै सह संवाद स्थापित लक्ष्यनिर्धारणं लक्ष्यप्राप्त्यर्थं च प्रेरणा प्रदत्ता । सत्रस्य प्रमुखांशा -
• पत्राचारद्वारा संस्कृतम इत्यायाम संघटनस्य मुख्याधारभूत स्तम्भ । अनेन सहस्रश सामजिका संस्कृतं पठित्वा संस्कृतसेवा कार्ये संलग्ना भवन्ति ।
• अखिलभारतीयसंघटनमन्त्री महोदय स्वयं पत्राचारद्वारा संस्कृतं पठितवान् ।
• मा. सरसंघचालक श्री मोहनभगवत्तमहोदय पत्राचारद्वारा संस्कृतं पठितवान् ।
• भारतस्य सेवानिवृत्त मुख्यन्यायधीश श्री आर.सी. लाहोटी महोदय पत्राचारद्वारा संस्कृतं पठित्वा अधुना संस्कृतकार्ये संलग्न ।
• भारतस्य पूर्वमुख्यनिर्वाचनाधिकारी श्री एन. गोपालस्वामी -महोदय पत्राचारद्वारा संस्कृतं पठित्वा अधुना संस्कृतकार्ये संलग्न ।
अभ्यासवर्गस्य द्वितीयदिवसेऽपि पूर्वयोजनानुगुणं सत्रद्वयं समायोजितम् । तत्र प्रथमसत्रे कार्ययोजनादृष्ट्या चर्चा संजाता अथ च द्वितीयसत्रे प्रान्ताध्यक्षवर्याणां मार्गदर्शनं प्राप्तम् । संस्कृतभारतीसंघटनपरम्परानुसारं ध्येयमन्त्रवाचनेन अभ्यासवर्गस्य द्वितीयदिवसस्य शुभारम्भ संजात । तृतीयसत्रे प्रान्तशिक्षणप्रमुख डा. मुकेशमहोदय चर्चासत्रस्य संचालनम् अकरोत् | तृतीयसत्रस्य मुख्यांशा -
चर्चा –
• सम्पर्क - परचितानां माध्यमेन अपरिचितजनै सह सम्पर्क ।
• रुचिज्ञानम् – संपर्कितजनानां रूचि ज्ञातव्या ।
• रुच्यानुगुणं शिक्षणव्यवस्था –
सम्भाषणशिविरम्
स्तोत्रकक्षा
गीताध्ययनकेन्द्रम्
• सामाजिकानां शिक्षणाय शिक्षकानां प्रशिक्षणम् |
• शिक्षणानन्तरं पत्राचारद्वारा संस्कृतमायाम्स्य छात्ररूपेण पंजीकरणम्
कार्ययोजना –
१५ जून २०२१ पर्यन्तं सम्पर्काभियानम्
• शिक्षकानां प्रशिक्षणम् –
१५ जून २०२१ त २०जून २०२१ पर्यन्तम् ।
सामाजिकानां शिक्षणाय शिक्षकानां प्रशिक्षणम् ।
ऑनलाइनपाठ्यसामग्रीनिर्धारणम् ।
• रुच्यानुगुणं शिक्षणव्यवस्था –
सम्भाषणशिविरम्
स्तोत्रकक्षा
गीताध्ययनकेन्द्रम्
अभ्यासवर्गस्य समापनसत्रे मा. प्रान्ताध्यक्षस्य प्रो. लक्ष्मीनिवासपाण्डेयमहोदयस्य मार्गदर्शनं सम्प्राप्तम् । अध्यक्षमहोदयेन स्वस्योद्बोधने पत्राचारद्वारा संस्कृतमायामस्य महत्ता प्रकटिता योजनानुगुणं कार्यं कर्तुं कार्यकर्तारश्च प्रेरिता । प्रान्तपत्राचारसहप्रमुख निकूराम सर्वान्ते अध्यक्षमहोदयस्य अभ्यासवर्गे समुपस्थितानां च सर्वेषां धन्यवादम् अकरोत् ।शान्तिमन्त्रवाचनेन अभ्यासवर्ग सुसंपन्न ।.
- Post By : Himachal Pradesh
- |
- 17-06-2021
- |