Top
Samskrita Bharati - Delhi
संस्कृतभारती - देहली
Latest Media & News
Preview Media & News

स्वामिविवेकानन्दजन्मोत्सवमुपलक्ष्य संस्कृतभारतीदेहलीद्वारा शिक्षकप्रशिक्षणकार्यशाला
स्वामिविवेकानन्दजन्मोत्सवमुपलक्ष्य संस्कृतभारतीदेहलीद्वारा जनवरी मासस्य द्वादशे दिने शिक्षकप्रशिक्षणकार्यशाला आयोजिता । देहलीस्थसंकल्पभवने आयोजितायाम् अस्यां कार्यशालायां पंचविंशतिप्रतिभागिनः भागं गृहीतवन्तः। सर्वेsपि प्रतिभागिनः संवादशालायां प्रशिक्षिताः आसन्।कार्यशालायाः उद्घाटनं डॉ धनञ्जयकुमाराचार्येण कृतम्।कार्यशालायाः संचालनं श्रीकृष्णकान्तवर्येण कृतम्। कार्यशालायां संस्कृतभारत्याः देहलीप्रान्तमन्त्रिण श्रीदेवकीनन्दनमहाभागाः संस्कृतभारत्याः पूर्णकालिककार्यकर्तार श्रीपुष्पेन्द्रमहाभागा संस्कृतभारत्याः शिक्षका कार्यकर्तारश्च श्रीविजयमहाभागाः संस्कृतभारत्या कार्यकर्तार विश्वविद्यालयप्रमुखाश्च श्रीसुशीलकुमारमहाभागाः संस्कृतभारत्याः कार्यकर्तारौ डॉ आशीषकुमार डॉ प्रीति च इमे सर्वे उपास्थिताः आसन्. कार्यशालायाः उद्देश्यं प्रतिभागिनां शिक्षकप्रशिक्षणमासीत्। अग्रिममासस्य प्रथमरविवासरे पुनः अस्याः कार्यशालायाः आयोजनं भविष्यति। प्रशिक्षितशिक्षकाः सेवाभारत्याः अशीति केन्द्राणि गत्वा बालकान् पाठयिष्यन्ति।.


  • Post By : Delhi
  • |
  • 15-01-2020
  • |