Top
Samskrita Bharati - Delhi
संस्कृतभारती - देहली
Latest Media & News
Preview Media & News

संस्कृतशिबिरचालकप्रशिक्षणवर्गस्य भाषाबोधनवर्गस्य च समापनकार्यक्रमः
#संस्कृतभारती_दिल्लीप्रान्तद्वारा द्वादशदिवसीय-#शिबिरचालकप्रशिक्षणवर्गस्य #भाषाबोधनवर्गस्य च समापनकार्यक्रमः जूनमासस्य द्वादशे दिनाङ्के तदनुसारं भौमवासरे जातः l प्रात:कालीनसत्रे प्रसिद्ध: #भागवतकथाकार: #श्रीश्यामसुन्दरपराशरोऽपि सौभाग्येन प्राप्तः l तस्य मार्गदर्शनमपि शिबिरार्थिभि: प्राप्तम् l
कार्यक्रमेऽस्मिन् मुख्यातिथिरुपेण उज्जैनस्थ-पाणिनीयविश्वविद्यालयस्य #कुलपतिचरः #प्रो० मिथिलाप्रसाद: विशिष्टतिथि: गुरुद्वारापक्षत: श्रीरैनसिंह: अध्यक्षरुपेण #प्रो० कमलाभारद्वाजमहोदया संस्कृतभारतीपक्षत: मुख्यवक्तृरुपेण उत्तरक्षेत्रीयसङ्गठनमन्त्री #श्रीजयप्रकाशवर्यः च समुपस्थिताः अभवन् l एतेषाम् अतिथीनां परिचय: प्रान्तसहमन्त्रिणा डॉ.परमेशकुमारमहोदयेन कारितम्l
अतिथिभि: सरस्वतीमातु: माल्यार्पणेन दीपप्रज्वालनेन च कार्यक्रमस्य आरम्भ: कृत:l कार्यक्रमेऽस्मिन् शिबिरार्थिभिः सरस्वतीवन्दना संस्कृतकव्याली शिबिरानुभवा: संस्कृतनाटकानि च प्रस्तुतानिl
मुख्यातिथि: - प्रो० मिथिलाप्रसादेन स्व-उद्बोधने कथितं यत् जन्मतः मरणानन्तरमपि संस्कृतम् अस्माभि: सह गच्छति l जीवनस्य कृते संस्कृतम् अतीव आवश्यकम् l संस्कृतेन एव मानवत्वं प्राप्यते l अध्यक्षा - प्रो.कमलाभारद्वाजमहोदयया उक्तं यत् संस्कृतेन एव परिवारस्यसमाजस्य विश्वस्य च कल्याणं सम्भवति l संस्कृतमेव अस्माकं भूतं वर्तमानं भविष्यं च वर्तते l श्रीजयप्रकाशवर्येण उक्तं यत् शिबिरे आगत्य सर्वे आत्मदीक्षिताः प्रेरिताश्च भवामः अतः सर्वै: शिबिरर्थिभि: संस्कृतभारत्याः पद्धति: अनुसरणीया। इतः गृहं समाजं प्रति च गत्वा संस्कृतेन एव सम्भाषणं करणीयम् । सम्भाषणस्य प्रयोगेण एव शिबिरस्य सार्थकता भविष्यतीति l
त्रयोदशे दिनाङ्के प्रातःकाले दीक्षान्त: तदनन्तरं संस्कृतशोभायात्रा अपि जाता l
कार्यक्रमेsस्मिन् विद्वत्परिषदः अध्यक्ष: #श्रीगोविन्दाचार्य: प्रान्तमन्त्री #श्रीकौशलकिशोरः शिबिरपालकः #विनायकहेगडे श्रीजयदेववीर: शिक्षणप्रमुखौ #आशुतोषगवीशौ प्रान्तशिक्षणप्रमुख: #श्रीविजय: प्रान्तप्रचारप्रमुख: #डॉ_नवीनशर्मा सुधीरकुमारः अरुणः प्रज्ञा धनञ्जय: पङ्कज: रिषु दीपक: आदयः कार्यकर्तारः अपि समुपस्थिता: आसन् l शिबिरे १५० शिबिरार्थिनः आसन् l.


  • Post By : Delhi
  • |
  • 21-10-2018
  • |