प्रबोधनवर्गः सम्पन्नः
अस्य वर्षस्य कर्णाटक-उत्तरप्रान्तस्य प्रबोधनवर्गः एप्रिल मासस्य २ दिनाङ्कतः ८ दिनाङ्क पर्यन्तं राणेबेन्नूरू नगरस्य रेन् बो शालायां सम्पन्नः । विविधेभ्यः जनपदेभ्यः ६४ शिक्षार्थिनः आगताः आसन् । वर्गे शिक्षार्थिरूपेण आगतानां बालकानां कृते विशेष - किशोरभाषाभ्यासवर्गं चालितम् । वर्गे रसप्रश्ना, गीतगायनस्पर्धा इत्यादयः कार्यक्रमाः आयोजिताः आसन् । विशेषरीत्या पञ्चदिनात्मक बालकेन्द्रम् अपि चालितम् । शिक्षार्थीनां कृते बालकेन्द्रस्य तथा च साप्ताहिकमेलनस्य प्रात्यक्षिका अपि कृता । अन्तिमदिने दीक्षान्तकार्यक्रमे सर्वे उपस्थिताः सर्वे संस्कृताय कार्यं कर्तुं प्रतिज्ञां स्वीकृतवन्तः । अस्मिन् वर्षे संस्कृताय किं किं कार्यं कुर्वन्ति इति सङ्कल्पपेटिकायां लिखित्वा स्थापितवन्तः । नूतनानि उत्तरवायित्वानि च घोषितानि । समारोपकार्यक्रमे मुख्यातिथी रूपेण आस्तां शकुन्तला चिकित्सालयस्य यजमानः श्री शिवप्रकाश तण्डि तथा च ॐ विद्यालयस्य यजमाना श्रीमती शिल्पा मनोज सावुकार् । रेन् बो विद्यालयस्य यजमानः डा. सी. टी. सुरेश, कार्यदर्शी श्री मालतेश च उपस्तिथौ आस्ताम् । अध्यक्षरूपेण आसीत् प्रान्तस्य अध्यक्षः प्रो. जी. आर्. अम्बली । वर्गे दक्षिणमध्यक्षेत्रस्य मन्त्री श्री नागराजः, प्रान्तसहमन्त्री श्री श्रीकान्त कुलकर्णि, मठमन्दिरसम्पर्कप्रमुखः श्री रामकृष्ण तद्दलसे, सङ्घटनामन्त्री श्री लक्ष्मीनारायणः, वर्गाधिकारीरूपेण प्रान्तोपाध्यक्षः श्री चन्द्रशेखरः, उपाध्यक्षा श्रीमती शारदा कुलकर्णि, प्रशिक्षणप्रमुखा श्रीमती चेन्नम्मा उपस्थिताः आसन् । एवम् एषः वर्गः कार्यकर्तृनिर्माणाय अभवत् ।.
- Post By : North Karnataka
- |
- 26-04-2025
- |













.jpeg)















