Top
Samskrita Bharati - Himachal Pradesh
संस्कृतभारती - हिमाचलप्रदेश:
Latest Media & News
Preview Media & News

भाषाबोधनवर्गस्य समापनम्
संस्कृतभारती-हिमाचलप्रदेशेन 29.01.2021 आरभ्य 02.02.2021पर्यन्तं गूगलमीट-वैबेक्सतन्त्रांशद्वयमाध्यमेन पञ्चदिनात्मक सद्यस्क-भाषाबोधनवर्ग आयोजित । अस्मिन् वर्गे हिमाचलप्रदेशस्य बहुभ्यः जनपदेभ्यः शताधिकाः महाविद्यालयच्छात्राः भागं गृहीतवन्तः। अस्मिन् भाषाबोधनवर्गे संघटनस्य ज्येष्ठाः कार्यकर्तारः मार्गदर्शनं कृतवन्तः। प्रतिदिनं चत्वारि सत्राणि भवन्ति स्म यथा- प्रातः सत्रद्वयं सायं सत्रद्वयं च।
वर्गे शिक्षणप्रमुखस्य दायित्वं शिमलाविभागसंयोजकेन श्रीकमलकान्तमहोदयेन निर्व्यूढम्। सहशिक्षणप्रमुखरूपेण नूरपुरजनपदशिक्षणप्रमुखा सुश्री दिनेशा अत्री वर्गदायित्वं निरवहत्। वर्गे आरम्भात् अन्तपर्यन्तं प्रान्तमन्त्री श्री सञ्जीवपाठकः प्रान्तसहमन्त्री डा. ज्ञानेश्वरशर्मा प्रान्तशिक्षणप्रमुखः डा. मुकेशकुमारश्च उपस्थिताः आसन्। वर्गस्य उद्घाटनं संस्कृतभारत्याः प्रान्ताध्यक्षः प्रो. लक्ष्मीनिवासपाण्डेयः अकरोत्। समापने सत्रे उत्तरक्षेत्रस्य क्षेत्रसङ्घटनमन्त्री श्रीमान् जयप्रकाशगौतममहोदयः कार्यकर्तृभ्यः ‘समर्पणम्’ इति विषये प्रबोधनमकरोत् एवञ्च प्रान्ताध्यक्षः देवभूमौ देवभाषायाः सुप्रचारार्थं सर्वान् कार्यकर्तृन् अपि पूर्णसमर्पणभावनया कार्यं कर्तुं प्ररितवान्। सत्रादिविवरणम् अधस्तात् प्रस्तूयते-

 वर्गशिक्षणप्रमुखः - श्री कमलकान्तगौतमः (शिमलाविभागसंयोजकः)
 सहशिक्षणप्रमुखा - सुश्री दिनेशा अत्री
 गणशिक्षकाः (सञ्चालकाः) – शतद्रुगणे – श्री लवीशः विपाशागणे – श्री टेकचन्दः सामूहिकसत्रे- श्री नीरजः
 वर्गार्थिसंख्या – 110
 शिक्षकसंख्या - 25
 माध्यमः – गूगल मीट- सिस्को वैबेक्स
 सत्रविभागः – प्रतिदिनं 4 सत्राणि (प्रातः सत्रद्वयम् सायं सत्रद्वयम्)
 विषयविभागः – प्रातः सत्रद्वये गणशः व्याकरणांशाभ्यासः सायं सत्रद्वये चर्चा (प्रातः गणशः सायं सामूहिकसत्रम्.


  • Post By : Himachal Pradesh
  • |
  • 17-02-2021
  • |