डीएसपीएमयू तथा संस्कृतभारतीराञ्ची इत्यनयो: संयुक्त तत्वावधाने राष्ट्रियगोष्ठ्या: आयोजनम्
डीएसपीएमयू तथा संस्कृतभारतीराञ्ची इत्यनयो: संयुक्त तत्वावधाने राष्ट्रियगोष्ठ्या: आयोजनं अभवत् ।
भारतीयसंस्कृतेः संरक्षणार्थं बहुविध प्रयत्नाः करणीयाः।
भारतीयज्ञानव्यवस्थाया: सम्पूर्ण विश्वे प्रभाव: अस्ति, अस्य कृते अस्माकं गौरवस्य भावः भवितव्यः। भारतीयसंस्कृतेः संरक्षणाय अस्माभिः प्रयत्नाः करणीयाः इति राज्यपालः सी.पी.राधाकृष्णन् अवदत्। सः डीएसपीएमयू-संस्कृतभारतीरखञ्चीत्यनयोः संयुक्त-आश्रयेण विश्वविद्यालयस्य सभागारे द्विदिवसीय-राष्ट्रीय-गोष्ठ्यां मुख्यातिथिरूपेण वदति स्म । कार्यक्रमे पुस्तकद्वयानां विमोचनं अभवत्, येषु शाश्वती तथा विज्ञाननवाचारः पारिस्थितिकी च। अस्मिन् काले सभागारस्य बहिः संस्कृतभाषायां विज्ञान-वस्तुप्रदर्शिन्या: आयोजनं कृतम् ।
प्रदर्शिन्या: राज्यपाल महोदयेन अवलोकनम् कृतम्। अवसरेस्मिन् रांचीविश्वविद्यालय: कुलपतय: डॉ. अजीतकुमारसिन्हा महाभागा:, झारखंडमुक्तविश्वविद्यालयस्य कुलपतय: डॉ. टी.एन.साहू महाभागा: डीएसपीएमयू विश्वविद्यालयस्य कुलसचिव: डॉ.नमितासिंह: तथा च संस्कृतविभागाध्यक्ष: डॉ धनंजयवासुदेवद्विवेदी महाभागा: उपस्थिता: आसन्।
विज्ञानस्य बीजानि संस्कृतशास्त्रेषु विकीर्णा: सन्ति- चन्द्रयानस्य सफलतायाः वैज्ञानिकानां अभिनन्दनम् कृतम्।
सीपीराधाकृष्णन् महोदयेन उक्तम् यत् इसरो-दलस्य नेता एस सोमनाथस्य मतं यत् संस्कृतशास्त्रेषु विज्ञानस्य बीजानि विकीर्णानि सन्ति। संस्कृतशास्त्रेषु वर्णितं ज्ञानम् अतुलनीयम् । अस्माभिः शिक्षाव्यवस्थायां परिवर्तनं कर्तव्यम् अस्ति, तदर्थं च राष्ट्रियशिक्षानीतिः २०२० मध्ये बहवः प्रावधानाः कृताः सन्ति । भारतीयज्ञानव्यवस्थायाः प्रवर्धनम् अस्याः शिक्षानीतेः एकः मुख्यः उद्देश्यः अस्ति । अस्मिन् अवसरे विशिष्टातिथिः संस्कृतभारत्याः अखिलभारतीयसङ्गठनमन्त्री महोदयेन उक्तम् यत संस्कृते: संरक्षणस्य कृते शास्त्राणां संरक्षणं करणीयम्। विश्वविद्यालयस्य कुलपतय: प्रो.(डॉ.) तपनकुमारशाण्डिल्यः अवदत् यत् भारतीयसंस्कृतेः दर्शनस्य च वैश्विकप्रभावः स्पष्टतया दृश्यते । संस्कृतशास्त्राणि न केवलं ज्ञानस्य कृते न रक्षितव्यानि, अपितु तस्य संशोधनस्य अपि आवश्यकता वर्तते। संस्कृते संरक्षितज्ञानात् नवीनतां राष्ट्रियशिक्षानीति-२०२० मार्गेण प्रोत्साहयितव्या। समस्यानां समाधानं कर्तुं भारतीयज्ञानपरम्परायाः महत्त्वपूर्णं योगदानम् अस्ति ।
दिनेशकमतः अवदत् यत् सांस्कृतिकशिक्षा अस्माकं संस्कृते: रक्षिका अस्ति, यस्मिन् सशक्तसामाजिकपरिवारव्यवस्थायाः मूलभूततत्त्वानि सन्ति।.
- Post By : Jharkhand
- |
- 26-11-2024
- |


















