
प्रान्तसम्मेलनं -२०/०१/२०१९ वैभवरूपेण समाभवत् ||
प्रान्तसम्मेलनं १९/०१/२०१९ दिनाड़्कतः २०/०१/२०१९दिनाड़्कपर्यन्तम् समाभवत् ||
प्रथमदिनस्यकार्यक्रमः प्रातः १० वादनतः ११ ३० पर्यन्तम् आसीत् || अस्मिन् कार्यक्रमे सम्मेलनप्रारम्भकरूपेण श्रीमान् डा.के.वि.रमणाचार्यः (निवृत्तः - ऐ .ए.एस्. - सर्वकार-सांस्कृतिकसूचनकारः तेलड़्गाणराज्यम्) | आशीःप्रवचनाय श्री श्री श्री प्रकाशानन्दसरस्वतीस्वामिनः (आर्षविद्यागुरुकुलम् दयानन्दाश्रमः ॠषिकेशः) | विशिष्टातिथिरूपेण श्रीमान् आचार्यः रव्वा श्रीहरिः (प्रमुखसंस्कृतान्ध्रपण्डितः - भूतपूर्वकुलपतिः - द्रविडविश्वविद्यालयः - कुप्पम् ) | प्रधानवक्तारूपेण श्रीमान् श्रीश देवपुजारी (पूर्णकालिककार्यकर्ता-अखिलभारतमहामन्त्री-संस्कृतभारती) | सभाध्यक्षरूपेण ब्रह्मश्रीः नरेन्द्रकापरे (ॠग्वेदघनपाठी-अध्यक्षः-संस्कृतभारती-तेलड़्गाणाराज्यम् ) | सञ्चालकरूपेण श्रीमान् चिलुकमर्रि लक्ष्मीनाथाचार्यः (निवृत्तसंस्कृतोपन्यासः-उपाध्यक्षः-संस्कृतभारती-तेलड़्गाणाराज्यम्) आसीत् || अस्यकार्यक्रमस्य स्थानम् आसीत् ओयासिस् इण्टर्नेषनल् है स्कूल् रायदुर्गं(दर्गा) षेकपेट् भाग्यनगरम् || द्वितीयदिनस्य समारोपकार्यक्रमे सभाध्यक्षरूपेण ब्रह्मश्रीः नरेन्द्रकापरे (ॠग्वेदघनपाठी-अध्यक्षः-संस्कृतभारती-तेलड़्गाणाराज्यम् ) || मुख्यातिथिरूपेण श्रीमान् आचार्यः डा. विरिवेण्टि मुरलीधरशर्मा(कुलपतिः - राष्ट्रियसंस्कृतविद्यापीठम् - तिरुपतिः || विशिष्टातिथिरूपेण श्रीमान् अरविन्दराववर्यः ( ऐ.पि .एस्.(निवृत्तः)-भूतपूर्वः- प्रधान-आरक्षकमहानिदेशकः (रिटैर्ड डि.जि.पि.)|| सान्निध्यम् आसीत् श्रीमान् श्रीश देवपुजारी (पूर्णकालिककार्यकर्ता-अखिलभारतमहामन्त्री-संस्कृतभारती) || प्रधानवक्तारूपेण श्रीमान् दत्तात्रेयः वज्रेल्लिः (पूर्णकालिककार्यकर्ता- क्षेत्रसड़्घटनमन्त्री- दक्षिणमध्यक्षेत्रम् - (कर्णाटकम् -- तेलड़्गाणा -- आन्ध्रप्रदेशः) संस्कृतभारती ) || कार्यक्रमे २६० जनाः भागस्वीकृतवन्तः आसन् || अतिथीनाम् प्ररोत्साहने युक्त वाक्यैः सर्वे जनाः हृदये दृढ़सड़्कल्पेन गतवन्तः यत् वयं सर्वे स्वक्षेत्र संस्कृतभाषायाः वर्धनं वातावरणं च आनयनाय प्रयत्नः कुर्मः ||.
- Post By : Telangana
- |
- 22-01-2019
- |