Latest Media & News
Preview Media & News
एकलव्य-संस्कृत-अकादमीद्वारा भविष्यति संस्कृतभाषायां गरबा नृत्यम् |
प्रतिवर्षम् इव एतस्मिन् वर्षेऽपि अहमदाबादनगरस्थया एकलव्य-संस्कृत-अकादम्या गरबानृत्यस्य कार्यक्रम: आयोजित: अस्ति| गरबा इति मातु: जगदम्बिकाया: स्तोत्रै: आराधना | प्रायश: गरबा-स्तोत्राणि गुजराती भाषायाम् एव प्राप्यन्ते परन्तु एकलव्य-संस्कृत-अकादमी-द्वारा संस्कृत-गरबा-गीतानां सङ्कलनं कृत्वा तानि गरबा-गीतानि गेयबद्धानि कृतानि सन्ति| एष: अद्भूत: प्रयोग: संस्कृतरसिकेषु आकर्षणं जनयन् अस्ति| संस्कृतभाषाया: प्रचाराय प्रसाराय च आयोजित: अयं कार्यक्रम: प्रशंसनीय: एव| संस्कृतभाषां लोकभोग्यां कर्तुं आचारिताय विशेषप्रयोगाय संस्कृतभारती एकलव्य-संस्कृत-अकादम्यै अभिनन्दनानि शुभकामना: च यच्छति|.
- Post By : Gujrat
- |
- 22-10-2018
- |
















