Top
Samskrita Bharati - South Karnataka
संस्कृतभारती - दक्षिणकर्णाटक
Latest Media & News
Preview Media & News

शङ्करपुरभागस्य कार्यक्रमः - विश्वसंस्कृतदिनम्
आविश्वे श्रावणपौर्णीमायां विश्वसंस्कृतदिनम् आचर्यते। अस्मिन् 2018 वर्षे
आगस्ट् मासस्य 23 दिनाङ्कतः 29 दिनाङ्कपर्यन्तं संस्कृतसप्ताहः आचरितः।
तस्मिन् सप्ताहे भानुवासरे श्रावणपौर्णिमा आसीत्। तदङ्गतया बेङळूरुनगरे अपि
बहुत्र कार्यक्रमाः प्राचलत्। शङ्करपुरभागस्य कार्यक्रमः अक्षरे भवने योजितः
आसीत्।

कार्यक्रमे उपस्थिताः संस्कृतभारत्याः कर्णाटकदक्षिणप्रान्तस्य सङ्घटनमन्त्रिः
श्रीमान् गुरुराव कुलकर्णी महोदयः प्रास्ताविकभाषणम् अकरोत्। कार्यक्रमस्य
मुख्यातिथिरूपेण विद्वान् एस्.शङ्कर् महोदयः उपस्थितः आसीत्। अस्मिन् सुसन्दर्भे
पुस्तकद्वयोः लोकार्पणं जातम्। अनन्तरं कार्यक्रमस्य अध्यक्षतां स्वीकृत्य भाषणं
श्रीमान् वेङ्कटकृष्ण महोदयः अकरोत्।

अस्य कार्यक्रमस्य मुख्यघट्टः संस्कृतगानरसानन्दः विद्वान् एस्.शङ्करवर्येण
तस्य शङ्कराभरणवृन्देन च गीत संस्कृतगीतानां सङ्गीतकार्यक्रमः अद्भुततया
प्राचलत्।

कर्णाटकशास्त्रीयसङ्गीतक्षेत्रं तु सागरमेवास्ति। तत्र विद्यमानाः अनेकाः कृतयः
संस्कृते अपि सन्ति। तेषु विशेषाः प्रसिद्धाः च कृतीनां सङ्कलनं कृत्वा कार्यक्रमम्
अमोघं कृतवन्त। जयचामराजेन्द्र ओडेयर् मध्वाचार्याःशङ्कराचार्याःजगन्नाथदासवर्याःअप्पय्य दीक्षितवर्याः अन्नमाचार्याः स्वाति तिरुनाळ् एवं विविधैः ज्येष्टैः कृतैः रचनैः यथा चिन्तयामि जगदम्बां
वेङ्कटाचलनिलयं गरुडगमनमिव भारतमाता एवम् अनेकविधानां संस्कृतगीतानां सङ्कलनं कृत्वा स्वशिश्यवृन्देन सह संस्कृतगानस्य रसम् आगतेभ्यः शताधिकश्रोतृभ्यः अनुभवं कारयित्वा अनन्दम् अकरोत् ।

अनेन कार्यक्रमेण विश्वसंस्कृतदिने भारतमातुः सेवाम् अकुर्वन् शङ्कराभरणवृन्दः।.


  • Post By : South Karnataka
  • |
  • 21-10-2018
  • |