संस्कृतभारत्याः व्रजप्रान्तस्य प्रबोधनवर्गः समुद्घाटितः ०५ जूनत: १३ जूनपर्यन्तम्
आगरा- 05जून 2024 तमे दिनाङ्के संस्कृतभारत्याः व्रजप्रान्तस्य प्रबोधनवर्गः समुद्घाटितः ।
कमलानगर-सरस्वती- शिशुमन्दिरे वर्गस्य उद्घाटनं दीपप्रज्वालनेन संस्कृतभारत्याः पश्चिम-उत्तर-प्रदेशस्य क्षेत्रसंगठनमंत्री मान्यवर: देवेन्द्रमहोदयः कृतवान् ।
अस्मिन् अवसरे स्वकीय अध्यक्षीय उद्वोधने प्रान्ताध्यक्षा प्रो० तुलसीदेवी अवोचत् यत् संस्कृतभाषायाः प्रचार- प्रसारस्य आवश्यकता अर्हर्निशं विद्यते ।
संस्कृतभारती एकमान्त्रं संगठनं दृश्यते यत् सर्वकारीयसहायतां विना समाजस्य बलेन संस्कृतेः संरक्षणम् विदधाति । विशिष्टाथितिः दीनदयालगौ - अनुसन्धानस्य मंत्रिवर्यः श्रीमान् हरिशंकरमहोदयः अवदत् यत् संस्कृतं विना भारतीय संस्कृतेः कल्पनां कर्तुं वयं न समर्थाः । ब्रजप्रान्तमंत्री डाॅ. धर्मेन्द्र अग्रवाल महोदयः प्रबोधनवर्गस्य प्रास्ताविकीं प्रस्तौतवान् । अस्मिन् अवसरे प्रान्तप्रशिक्षणप्रमुखः सतीशमहोदयः , ब्रजप्रान्तसंगठनमंत्री श्रीमान् नरेन्द्रभागीरथी , लक्ष्मीनारायण: , वर्गाधिकारी श्री रघुवीरजी , ओ३मप्रकाशबंसलजी, हरस्वरूपजी , डाॅ .जगदीश शर्मा , गंगाधर अरोडा प्रमुखरूपेण उपस्थिताः आसन् । कार्यक्रमस्य संचालनं प्रान्तसहमंत्री , डाॅ गौरवगौतममहोदयः कृतवान् । वर्गे एकोनचत्वारिंशत् शिक्षार्शिनः उपस्थिताः सन्ति ।.
- Post By : Vraj
- |
- 08-06-2024
- |





.jpg)
