Top
Samskrita Bharati - Telangana
संस्कृतभारती - तेलङ्गाना
Latest Media & News
Preview Media & News

संस्कृतदिवसः - 10-09-2023
तेलङ्गाण राज्ये भाग्यनगरे (हैदराबाद्) भाग्-५) के. पी. हेच्. बी. सहवासे स्थिते श्री कञ्चिकामकोटि वेङ्कटेश्वरमन्दिर प्राङ्गणे सेप्टेम्बर मासस्य दशमदिनाङ्के संस्कृतदिवसः आचरितः।

मुख्यातिथिः महामहोपाध्यायः निवृत्त प्राध्यापकः श्री कोराड सुब्रह्मण्य महोदयः, विशिष्टातिथिः कूकटपल्ली प्रान्तस्थस्य केन्नडी उन्नतविद्यालयस्थापकाध्यक्षः श्री बी. यस्. यन्. मूर्ति महोदयः, संस्कृतभारती तेलङ्गाण प्रान्तकार्यदर्शी श्री नरसिंहा राव महोदयः च।

विंशत्यधिकेभ्यः बालेभ्यः शिक्षार्थिभ्यश्च गीताश्लोकाः संस्कृतगीतानि च प्रदर्शितानि।
एतस्मिन् कार्यक्रमे पत्रालयशिक्षकाः छात्राः संस्कृतप्रेमिणः आहत्य अशीत्यधिकाः जनाः भागम् अवहन्।
महामहोपाध्यायः सुब्रह्मण्यम् महोदयेन पाणिनीयव्याकरणम् अधिकृत्य मुख्योपन्यासः दत्तः।
तेलङ्गाण प्रान्तप्रचार प्रमुखेन आचार्य आनन्दकुमार महोदयेन धन्यवादसमर्पणं कृतम्।.


  • Post By : Telangana
  • |
  • 16-09-2023
  • |