Top
Samskrita Bharati - Uttarakhand
संस्कृतभारती - उत्तराखण्ड
Latest Media & News
Preview Media & News

22-12-2023 दिनांके काशीपुरे गीताजयन्ती समारोह: आयोजितः।
काशीपुरे 22-12-2023 दिनांकेसंस्कृतभारती तथा श्रीसनातन संस्कृत महाविद्यालय: काशीपुरम् द्वारा गीताजयन्ती समारोह: आयोजितः। अस्मिन्नवसरे विद्वद्भिः श्रीमद्भगवद्गीतायाः विषये विस्तृता चर्चा कृता । सहैव श्रीमद्भगवद्गीतायाः सामूहिक: पाठ:अपि कृतः । छात्राणाम् उत्साहवर्धनाय गीतायाः पुरुषोत्तमयोगम् अभिलक्ष्य (15 अध्याय:) प्रतियोगिता अपि आयोजिता । प्रतियोगितयां प्रथमं स्थानम् संस्कृत विद्यालस्य छात्रः भाष्कर : , द्वितीयं स्थानम् गुरुकुल फाउंडेशन विद्यालस्य छात्रः श्रीकृष्ण झा, तथा तृतीयं स्थानम् गोविंद झा लब्धवान् । विजेतृभ्यः प्रतिभागिभ्यः स्मृतिचिह्नम् धनराशिः चापि प्रदत्ता । कार्यक्रमस्य अध्यक्षता विद्यालयस्य प्रबंधककेन श्रीमता संजय चतुर्वेदीमहोदयेन कृता । मुख्यातिथि: डॉ के सी जोशी वर्यः , विभागाध्यक्षः रसायनविज्ञानम् राधे हरि स्नातकोत्तर महाविद्यालयः काशीपुरम् , विशिष्टातिथि: डॉ प्रणवीर प्रताप सिंह: आसीत् । अतिथयः दीपप्रज्वालनेन विद्यालयस्य छात्रा: च वैदिकमंगलाचरणेन कार्यक्रमस्य प्रारम्भं कृतवन्तः । अतिथीनां स्वागतं डॉ सुरेन्द्र शर्मा मधुरः अकरोत् । कार्यक्रमस्य संचालनम् संस्कृत भारत्या: प्रान्तशिक्षणप्रमुखः डॉ राघव झा महोदयः अकरोत् । विभागसंयोजक: डॉ जगदीश चन्द्र पाण्डेय: प्रस्ताविकम् प्रस्तुतवान् ।विद्यालयस्य प्रधानाचार्य: श्रीमान् तुलाराम शर्मा महोदयः अतिथीनाम् धन्यवादज्ञापनम् कृतवान् । कार्यक्रमे डॉ जितेन्द्र पंतः , श्री राजेन्द्र जोशी, उमा , निशान्तः बेलवालः , निष्कर्ष: बेलवालः, अंजली, इत्यादयः अनेके कार्यकर्तारः उपस्थिताः आसन् ।
वन्दे संस्कृतमातरम्।.


  • Post By : Uttarakhand
  • |
  • 22-12-2023
  • |