Latest Media & News
Preview Media & News

गीताजयन्ती 2024
संस्कृतभारतीहिमाचलप्रदेशद्वारा 22 दिसम्बर् 2023 तमे वर्षे गीताजयन्तीम् उद्दिश्य विशिष्टा योजना कृता आसीत् । यत्र पूर्वसन्ध्यायां व्याख्यानम्, गीताजयन्ती दिने गृहे-गृहे गीतापारायणम्, खण्डस्तरे सामाजिकैः सह गीतापारायणम्, परम्परागतसंस्थासु अन्याभिः सामाजिकसंस्थाभिः च सह मिलित्वा गीतापारायणम् इत्येवं चतुर्धा कार्यक्रमाः विचारिताः आसन् । पूर्वसन्ध्यायां व्याख्यानकर्ता श्रीमान् प्रतापसिंहमहोदयः आसीत्। गीताजयन्तीदिने षट्चत्वारिंशति विविधस्थानेषु कार्यक्रमाः आयोजिताः येषु सप्तत्युत्तर-नवशत-सहस्रं (1970) जनाः भागं गृहीतवन्तः ।.
- Post By : Himachal Pradesh
- |
- 28-02-2024
- |