गुजरातविश्वविद्यालये सम्पन्ना “भविष्याय संस्कृतम्” इति राष्ट्रियसङ्गोष्ठी
गुजरातविश्वविद्यालयस्य संस्कृतसम्भाषनकेन्द्रं संस्कृतभारती गुर्जरप्रान्तः संस्कृतसाहित्य-अकादमी गान्धिनगरम् इत्येतेषां संयुक्तोपक्रमेण विश्वविद्यालयस्य सभागारे ’भविष्याय संस्कृतम्’ इति विषयमाधारीकृत्य एकदिवसीयायाः राष्ट्रियसङ्गोष्ठ्याः आयोजनम् अभवत् । कार्यक्रमेऽस्मिन् श्रीमती अंजुशर्मा (अग्रसचीवः शिक्षणविभागः गुजरातसर्वकारः) मा. श्रीशः देवपूजारी (राष्ट्रियमहामन्त्री संस्कृतभारती) श्री भाग्येशः झा (सदस्यः तज्ज्ञसमितिः युनाइटेदनेशन्स्) डॉ. विष्णु पण्ड्या (साहित्य-अकादमी) श्रीशीरिषभेडसगावकरः (संस्कृतभारती) डॉ. नन्दकुमारः (संस्कृतभारती) डॉ. हिमांशुः पण्ड्या (कुलपतिः गुजरातविश्वविद्यालय) च उपस्थिताः आसन् । श्रीमत्या अंजुशर्मामहोदयया उक्तं यत् संस्कृतभाषा अतिप्राचीना वर्तते । संस्कृतभाषायां लिखिताः ग्रन्थाः एतया भाषया एव पठामः अवगच्छामः चेत् पूर्णतां प्राप्यते । अनुवादितग्रन्थाः तथा उपकारकाः भवितुं नार्हन्ति । डॉ. हिमांशुपण्ड्यावर्येणोक्तं यत् विश्वविद्यालयः संस्कृतप्रचाराय कटिबद्धः अस्ति । भविष्ये संस्कृतचेर संस्कृतप्रमोशनसेन्टर च इत्यनयोः आरम्भः भविष्यति । श्रीशदेवपूजारीवर्येणोक्तं यत् वयं व्याकरणस्य ज्ञानं विनैव स्वमातृभाशां ज्ञातुं समर्थाः जाताः । भाषां पठितुं व्याकरणस्य न परन्तु वातावरणस्स्य अभ्यासस्य च आवश्यकता वर्तते ।
सङ्गोष्ठ्याः विविधेषु सत्रेषु विविधविश्वविद्यालयानां कुलपतयः उपस्थिताः आसन् । तेषु डॉ. नीतिन पेथाणी (सौराष्ट्रविश्वविद्यालयः) डॉ. गोपबन्धुमिश्रः(श्रीसोमनाथसंस्कृतविश्वविद्यालयः) प्रो. चेतनत्रिवेदी(भक्तकविनरसिंहमहेताविश्वविद्यालयः) प्रो. अमी-उपाध्यायः (डॉ.बाबासाहेब-अम्बेडकरविश्वविद्यालयः) च उपस्थाय कार्यक्रमस्य शोभाम् अवर्धयन् ।
अस्मिन् कार्यक्रमे त्रिशताधिकाः संस्कृतरसिकाः छात्राः प्राध्यापकाः च भविष्याय संस्कृतम् इति विषयमाधारीकृत्य विद्वत्तापूर्णानि स्वसंशोधनपत्राणि प्रस्तुतवन्तः । कार्यक्रमस्य अन्तिमे समापनसत्रे पद्मश्री मनोजजोशी (प्रसिद्धः अभिनेता) उपस्थाय संस्कृतप्रेमिणां उत्साहवर्धनम् अकरोत् । तेनोक्तं यत् अभिनयक्षेत्रे तस्य सफलतायाः पृष्ठे संस्कृतभाषा एव अस्ति । कार्यक्रमस्य विविधेष् सत्रेषु नैके संस्कृतपण्डिताः संस्कृतरसिकाः शोधच्छात्राः प्राध्यापकाः च भागम् अवहन् ।.
- Post By : Gujrat
- |
- 24-11-2019
- |