प्रान्तसम्मेलनम्- संस्कृतप्रभा सम्पन्ना
कर्णाटक उत्तरप्रान्तस्य प्रान्तसम्मेलनं जनवरी 11-12 दिनाङ्कयोः मराठा मन्दिरं, बेळगावी नगरे जातम्। 19 जिल्लाभ्यः 280 कार्यकर्तारः उपस्थिताः आसन् ।
कर्णाटकउत्तरस्य नूतनः संस्कृतग्रामः नन्देश्वरम् । नन्देश्वरस्य स्वामिनः श्री दुण्डेश्वर महास्वामिनः उद्घाटनकार्यक्रमे उपस्थिताः आसन् । प्रान्ताध्यक्षः प्रो. जी. आर्. अम्बली, अ. भा. श्लोकपाठनकेन्द्रप्रमुखः श्री चिन्मय आंशेकरः, श्री सुहास कुमार शेट्टी उद्घाटनकार्यक्रमे उपस्थिताः आसन् ।
कार्यक्रमे विशेषता शोभायात्रा, बहुभ्यः वर्षेभ्यः निरन्तरं कार्यं कुर्वतां कार्यकर्तृणाम् केशाञ्चन साक्षात्कारः विशेषप्रेरणायै अभवत् । विशिष्ट प्रदर्शिनि अपि आयोजिता आसीत् । प्रदर्शिन्याः उद्घाटनं कृतवान् श्री अप्पा साहेब गुरव, मुख्य अतिथिरूपेण आसीत् श्री मिलिन्द बडकुन्द्री, प्रान्तोपाध्यक्षः श्री चन्द्रशेखरः उपस्थितः आसीत् ।
सम्मेलनतः पूर्वं सम्मेलनस्य प्रचारं महता प्रमाणेन कृतः इति कारणेन तथा बेळगावी नगरे सम्पर्कः कृतः इति कारणेन बेळगावी नगरे कार्यकर्तृणाम् उत्साहः महान् आसीत् इत्यनेन सार्वजनिकाः अपि प्रदर्शिन्याः दर्शनार्थम् उत्तमप्रमाणेन उपस्थिताः आसन् ।
कार्यक्षेत्रस्य विस्तारः तथा च कार्यकर्तुः विकासः तथा कार्ये निरन्तरता इति विषयान् अधिकृत्य चर्चा भाषणानि च जातानि । संस्कृतगृहं तत् संस्कृतीयुक्तं कथं भवेत् इति विषये अपि अ.भा. कुटुम्बप्रभोदन प्रमुखः श्री टी.एन्.प्रभाकरः उद्भोदनम् अकरोत् । उद्धाटनवसरे भाषमाणः श्री चिन्मय आंशेकरः महोदयः कार्ये निरन्तरता कथं प्रक्षणीया इति विषये आग्रहम् अकरोत् ।
समारोपकार्यक्रमे अध्यक्षा रूपेण आसीत् प्रान्तोपाध्यक्षा श्रीमती शारदा कुलकर्णि, मुख्यवक्ता श्री रामकृष्ण तद्दलसे, श्री अशोक गाङ्गोड्करः, श्री समीर कणबर्गि उपस्थिताः आसन् ।
दिनद्वयस्य एतत् सम्मेलनं कार्यकर्तृणाम् कार्यप्रेरणायै अभवत् इत्यत्र नास्ति सन्देहः ।.
- Post By : North Karnataka
- |
- 22-01-2025
- |













.jpeg)















