Top
Samskrita Bharati - Kashi
संस्कृतभारती - काशी
Latest Media & News
Preview Media & News

द्विदिवसीया समीक्षायोजनागोष्ठी काशीमहानगरे आयोजिता ।
संस्कृतभारत्याः काशीप्रान्तस्य द्विदिवसीया समीक्षायोजनागोष्ठी काशीमहानगरे मार्चमासस्य 17-18 दिनांकयो: शनि-रविवासरयोः आयोजिता । अस्यां गोष्ठ्यां संस्कृतभारत्याः अखिलभारतीयः अध्यक्ष: प्रो० गोपबन्धुमिश्रमहोदय:, काशीप्रान्ताध्यक्ष: प्रो०कृष्णकान्तशर्ममहोदय:,पूर्वीउत्तरप्रदेशक्षेत्रसंगठनमंत्री प्रमोदपण्डितमहोदयः, कोषप्रमुख: श्री अनिल किंजवडेकरमहोदय:, प्रान्तस्य शिक्षणप्रमुख: डॉ० अशोकचौधरीमहोदय:, पत्राचारप्रमुख: डॉ० शालिग्राममहोदय:, साहित्यप्रमुख: डॉ०अमरचंद्र- ठाकुरमहोदय:,काशीमहानगर-अध्यक्ष: डॉ. रविशंकरपण्डेयमहोदय:, तथा च अन्ये जिला-बसतिस्तरीया: दायित्ववन्तः कार्यकर्तारः उपस्थिताः आसन् । गोष्ठ्यां प्रथमे दिवसे उद्घाटनसत्रे प्रो गोपबंधुमिश्रमहोदयः कार्यकर्तृन् सम्बोधितवान् । महोदयः समीक्षायोजनागोष्ठ्याः उद्देश्यानि करणीयकार्याणि च विस्तरेण उक्तवान् । सर्वे दायित्ववन्तः कार्यकर्तारः स्वदायित्वानुगुणं जनपदानुसारं च सम्पूर्णवर्षस्य कृतकार्याणां वृत्तं प्रस्तुतवन्तः । द्वितीयदिवसे प्रथमे सत्रे पूर्वीउत्तरप्रदेशक्षेत्रसंगठनमंत्री श्रीप्रमोदमहोदयः आगामिवर्षस्य योजनादृष्ट्या करणीयानि कार्याणि विस्तरेण उपस्थापितवान् ।समापनसत्रे काशीप्रान्ताध्यक्षः प्रोफेसरकृष्णकान्तशर्ममहोदयः कार्यकर्तृन् सम्बोधयन् उक्तवान् यद् अस्माकं सङ्कल्पः यदि दृढः स्यात् तदा संसारे न किमपि असम्भवं स्यात् । अस्माकं कर्मयोगिनः प्रधानमन्त्रिणः दृढसङ्कल्पस्यैव परिणामः राममन्दिरनिर्माणं तत्र भगवतः रामचन्द्रस्य बालविग्रहस्य प्राणप्रतिष्ठा च अस्ति । अतः यदि वयं दृढसङ्कल्पेन निष्ठया, उत्साहेन शिविराणां सञ्चालनं, साप्ताहिकमेलनस्य आयोजनं प्रतिजनपदं कार्यविस्तारं च करिष्यामः तर्हि संगठनस्य उद्देश्यपूर्तिः अवश्यमेव भविष्यति ।.


  • Post By : Kashi
  • |
  • 30-03-2024
  • |