Top
Samskrita Bharati - Andhra Pradesh
संस्कृतभारती - आन्ध्रप्रदेशः
Latest Media & News
Preview Media & News

प्रान्तसमित्याः मासिकमेलनम् - 20.02.2022
आन्ध्रप्रदेशः – फेव्रुवरीमासस्य 28 दिनाङ्के प्रान्तसमित्याः मासिकमेलनं विजयवाटिकायां संवृत्तम् । मेलने सर्वेषु जनपदस्तरेषु प्रत्यक्षं बालकेन्द्राणि पत्राचारकेन्द्राणि गीताशिक्षणकेन्द्राणि च चालनीयानि तदर्थं सर्वेषु जनपदेषु विद्यमानां बालकेन्द्रादीनां शिक्षकाणां दिनद्वयात्मकं प्रशिक्षणं प्रत्यक्षमाध्यमेन मार्च-अप्रिल्मासयोः आयोजनीयमिति निर्णयः स्वीकृतः । पुनः विद्यालयेषु सरलकेन्द्राणां वर्धनाय प्रचारः सम्पर्कश्च करणीयः इत्यपि चिन्तितम् । मार्चमासात् अधिकांशकार्यक्रमाः प्रत्यक्षरुपेणैव चालनीयाः तैः सह Online माध्यमेन केचन कार्यक्रमाः अपि भवेयुः इति निर्णितम् । अन्ते विजयवाटिकायां प्रान्तकार्यालयनिर्माणाय त्रिकोटिरूप्यकाणां व्ययः भविष्यति तदर्थं सर्वजनपदेभ्यः धनसङ्ग्रहः करणीयः इति चर्चा जाता । मेलने प्रान्तसमितिसदस्येषु पञ्चदश जनाः उपस्थिताः त्रयः अनुपस्थिताश्च आसन् । प्रान्तस्य अग्रीमं मासिकमेलनं नेल्लूरुनगरे भविष्यति ।.


  • Post By : Andhra Pradesh
  • |
  • 11-03-2022
  • |