Top
Samskrita Bharati - Jharkhand
संस्कृतभारती - झारखण्ड
Latest Media & News
Preview Media & News

संस्कृत-सप्ताह-उत्सवस्य आयोजनं संस्कृतभारती-राँची।
संस्कृत-सप्ताह-उत्सवस्य आयोजनं संस्कृतभारती-राञ्ची-द्वारा अगस्तमासस्य षोडशदिनांकत: त्रयोविंशतिदिनांकपर्यन्तम् कृतम् । अस्य समारोहस्य उद्घाटनं संस्कृतभारत्या: प्रान्तमन्त्री डॉ. दीपचन्दरामकश्यपः, प्रान्तविद्वतपरिषद: संयोजकः डॉ. शैलेशकुमारमिश्रः च अकरोत् । कार्यक्रमस्य प्रथमदिवसे शोभायात्रा, द्वितीयदिवसे संस्कृतगीतप्रतियोगिता, तृतीयदिवसे संस्कृतनृत्यप्रतियोगिता, चतुर्थदिवसे निबन्धप्रतियोगिता, पञ्चमदिवसे भाषणप्रतियोगिता, षष्ठदिवसे पोस्टरप्रतियोगिता च अभवत्। अस्य कार्यक्रमस्य समारोप कार्यक्रमे डाॅ.श्यामाप्रसादमुखर्जीविश्वविद्यालयस्य कुलपतय: प्रो.तपनकुमारशाण्डिल्यमहोदय: मुख्यातिथिरूपेण उपस्थिता: आसन्। समारोपकार्यक्रमे विजेताप्रतिभागिन: पुरस्कारमपि प्राप्तवन्त:।.


  • Post By : Jharkhand
  • |
  • 19-11-2024
  • |