Latest Media & News
Preview Media & News
मैसूरु महानगरस्य जे।पि।नगरे "संस्कृतोत्सव" माचरितम्।
०९/०९/२०१८ दिनाङ्के प्रातः १०:०० वादने मैसूरु महानगरस्य जे।पि।नगरे राममन्दिरमित्यत्र संस्कृतभारत्याः समाराधकैः "संस्कृतोत्सव" माचरितम्। तस्मिन् मैसूरुमहानगरपालिकायाः भूतपूर्वमहापौरः बि।एल्।भैरप्पवर्यस्य अद्यक्षत्त्वे संस्कृतभारत्याः पत्राचारपाठकः विद्वान् श्री चिदम्बर भट् आचार्यस्य उपस्थितिः आसीत्। मुख्यवक्तृरूपेण गोपालस्वामि महाविद्यालय शिक्षकः विद्वान् श्री शम्भुलिङ्गोपाध्यायः संस्कृतस्य महत्वपठनप्रचारप्रसारविषयेच उक्तवान्। कार्यक्रमेस्मिन् उप ७० जनाः आसन्। बालाः सांस्कृतिक कार्यक्रमान् प्रदर्शितवत्यः। संस्कृतभारत्याः कार्यकर्तारः बालकेन्द्रस्य मातरश्च आसन्।.
- Post By : South Karnataka
- |
- 21-10-2018
- |


























