Latest Media & News
Preview Media & News

शिमलायां राजकीयफागलीसंस्कृतमहाविद्यालये संस्कृतसप्ताहमहोत्सवस्य शुभारम्भः
हिमाचलप्रदेशस्य शिमलाजनपदे राजकीयसंस्कृतमहाविद्यालये फागल्यां संस्कृतसप्ताहस्य शुभारम्भकार्यक्रमः अभवत् । कार्यक्रमे अस्मिन् महाविद्यालयस्य पूर्वप्राचार्यः डा.बंसीलालमहोदयः मुख्यातिथिरूपेण आसीत् । महाविद्यालयस्य प्राध्यापकः डा.ओङ्कारचन्दः सारस्वतातिथिरूपेण च उपस्थितः आसीत् । कार्यक्रमः अयं महाविद्यालयस्य प्राचार्यस्य डा.मुकेशशर्ममहोदयस्य आध्यक्षे सुसम्पन्नः । महाविद्यालयस्य छात्रैः विविधकार्यक्रमः संस्कृतसप्ताहकार्यक्रमस्य शुभारम्भावसरे प्रस्तुताः । कार्यक्रमे अस्मिन् महाविद्यालयस्य सर्वे अपि प्राध्यापकाः छात्राः च उपस्थिताः आसन् ।.
- Post By : Himachal Pradesh
- |
- 25-08-2022
- |