28-04-2024 दिनांके दिनद्वयस्य प्रान्तसमीक्षायोजनागोष्ठी सम्पन्ना ।
उत्तराञ्चलप्रान्तस्य संस्कृतभारत्या: दिनद्वयस्य प्रान्तसमीक्षायोजनागोष्ठ्याम् उत्तराखण्डस्य त्रयोदशजनपदेभ्य: खण्डश: जनपदश: विभागश: प्रान्तीया: दायित्ववन्त: कार्यकर्तार: हरिद्वारे समीक्षार्थम् एकत्रिता: अभवन् । यत्र विभिन्नसत्रेषु गतवर्षस्य कार्याणां समीक्षा अभवत् च आगामीवर्षस्य कार्यक्रमाणां योजना अभवत्।
चर्चाविशेषे अखिलभारत-सहसंघटनमन्त्री श्रीजयप्रकाशमहोदय:, श्रीप्रेमचन्द्रशास्त्री, श्रीमतीजानकीत्रिपाठी, गिरीश तिवारी, गौरवशास्त्री , हरीशगुरुरानी इत्यादिभिश्च अखिलभारतीयस्तरे प्रान्तस्तरे जनपदस्तरे खण्डस्तरे जायमानानाम् च सम्भाव्यमानानां कार्यक्रमाणां समीक्षा कृता च सर्वव्यस्थानां कृते सर्वेषां मार्गदर्शनं कृतम्। उत्तरदायित्वरूपेण संस्कृतभारत्या: बहुभ्य: कार्यकर्तृभ्य: नूतनदायित्वानि अपि प्रदत्तानि ।
समापनसत्रेस्मिन् प्रान्ताध्यक्षाद्वारा कथितं यत् वयं मिलित्वा संस्कृतकार्यं अग्रे वर्धयाम: च विभिन्नस्थानेषु सम्भाषणशिविरायोजनेन संस्कृतं प्रसारयाम: । अखिलभारतीयसहसंगठनमन्त्रिणा
जयप्रकाशवर्येण उक्तं यत् संस्कृताय अस्माभि: समय: दातव्य: तथा च परस्परं संवाद: सम्मेलनं अपि आवश्यकम्। अस्माभि: संस्कृतेन सर्वेषां स्पर्श: भवेत् तेन लालनं संरक्षणम् अपि भवति। सर्वेषां स्मरणम् आवश्यकं। दृष्टि: निर्माणरूपेण आवश्यकी ।
अवसरेस्मिन् विद्वत्-परिषद्-प्रमुख: श्रीदिनेशचन्द्रशास्त्री, गीताशिक्षणप्रमुख: अरविन्दनारायणमिश्र: ,प्रान्तप्रचारप्रमुख: जगदीशचन्द्र जोशी , प्रकाशचन्द्रजांगी , प्रकाशचन्द्र-उप्रैती , जगदीशपाण्डेय: , रोशनगौड:, प्रदीपसेमवाल:, वाणीभूषणभट्ट: , इतेन्द्रनैथानी ,कुलदीपमैन्दोला, पूर्वकार्यालयप्रमुख: मनीषबडथ्वाल: ,निर्मल जोशी, कैलाश सनवाल: , इत्यादय: सम्पूर्ण-प्रान्तात् पञ्चनवति (95) यावत् कार्यकर्तार: उपस्थिता: आसन्।
वन्दे संस्कृतमातरम्।.
- Post By : Uttarakhand
- |
- 29-04-2024
- |





























