
वार्षिक समीक्षा-योजना गोष्ठी - 2024
10-03-2024 दिनाङ्के भानुवासारे संस्कृतभारती तेलङ्गाणा प्रान्तस्य वार्षिक समीक्षा-योजना गोष्ठी प्रातः 10 वादनाराभ्य सायं 5 वादन पर्यन्तम् आयोजिता आसीत्। गोष्ठ्याम् अखिलभारत प्रकाशन प्रमुखस्य मान्य दत्तात्रेय वाज्रहल्ली महोदयस्य एवं दक्षिणमध्य क्षेत्र सङ्घटना मन्त्री मान्य नागराज महोदयस्य मार्गदर्शनं प्राप्तम्।
प्रांत उपाध्यक्षः श्रीमान् लक्ष्मीनाथाचार्य महोदयस्य अध्यक्षतायां प्रांत प्रशिक्षण प्रमुखः श्रीमान् गोपालकृष्णः सभासञ्चालनम् कृतवान्। पूर्वाह्णे गतवर्षे आयोजित कार्यक्रमाणाम् आयाम प्रमुखैः आयामशः वृत्तकथनम् तथा जनपदशः जनपदकार्यदर्शिभिः समीक्षा कृता जाता। अपराह्णे आगामि वर्षस्य वार्षिक योजना तथा प्रांत सम्मेलनस्य विषये सार्थक चर्चा अभवत्। शिक्षण एवं आयामशः कार्यक्रमाणां विषये निर्णयाः स्वीकृताः। 12 जनपदेभ्यः 35 कार्यकर्तारः भागं स्वीकृतवन्तः। प्रांत प्रचार प्रमुखः आनन्दकुमारवर्यः प्रचार-स्वरूपं संस्कृतभारत्याः FB, X, Coo, Instagram इत्यादि मध्यामानां website च उपयोग विषये उपयुक्तपरामर्शान् दत्तवन्तः।.
- Post By : Telangana
- |
- 14-03-2024
- |