संस्कृतसप्ताहावसरे संस्कृतशुभकामनासन्देशप्रेषणम्
संस्कृतशुभकामनासन्देशप्रेषणम् –
संस्कृतभारत्याः कार्यकर्तृणां प्रेरणया संस्कृतसप्ताहावसरे बहुभिः सामाजिकजनैः नेतृभिः हिमाचलसर्वकारमन्त्रिभिः प्रशासनिकाधिकारिभिः कृषकैः संस्कृतेतरप्राध्यापकैश्च सर्वेभ्यः संस्कृतेनशुभकामनासन्देशाः प्रेषिताः। तान् सर्वान् सन्देशान् एकत्रीकृत्य संस्कृतसप्ताहावसरे प्रतिदिनं मध्ये मध्ये संस्कृतभारत्याः आमुखपटलस्य पृष्ठेतेषां प्रसारणं कृतम्। ये सन्देशाः सर्वेभ्यः प्राप्ताः तेषां संख्यात्मकं विवरणम्-
मुख्यमन्त्रिसमेताः मन्त्रि-विधायक-पूर्वविधायकादयः राजनेतारः - 13
उच्चशिक्षानिदेशकसमेताः विविधक्षेत्रीयाः प्रशासनिकाः अधिकारिणः - 18
शैक्षिकवर्गस्य जनाः (शिक्षणक्षेत्रात्) - 17
विविधसेवाभ्यः सेवानिवृत्ताः - 7
अधिवक्तारः - 03
सामाजिकाः - 19
आहत्य - 77
सन्देशप्रेषकानां जिलाशः विवरणम्
1. चम्बा - 13 2. कांगडा - 4 3. पालमपुरम् - 10
4. बिलासपुरम् - 3 5. हमीरपुरम् - 1 6. मण्डी - 3
1. कुल्लुः - 5 8. करसोगः - 1 9. शिमलानगरम् - 6
10 शिमलाग्रामीणः – 2 11. रोहडू - 8 12. अर्की - 2
13. सोलनम् - 3 14. नालागढम्- 10 15. सिरमौरः - 3.
- Post By : Himachal Pradesh
- |
- 07-10-2020
- |